________________
न्यायसिद्धान्तदीपे तत्र पुरोवर्तिना रजतभेदस्याग्रहो वाच्यः, येन केनापि वा । नान्योऽतिप्रसङ्गात् , अन्यभेदग्रहेऽपि प्रवृत्तेर्दर्शनात् । नाद्यः । अप्रसिद्धः । नापि पुरोवर्तिनि रजतत्वप्रकारकभेदंघहस्याभावः। सामान्येन रूपेणोपैस्थिते रजते रजतत्वप्रकारकभेदग्रहस्याभावेऽपि प्रवृत्तेर्दर्शनात् । न च तत्र रजतत्वेन रूपेण पुरोवर्युपस्थितिरेव न वृत्तेति वाच्यम् । विशिष्टज्ञानप्रयोजकत्वप्रसङ्गात् । न च चाकचिक्यादिना रजतोपस्थितिः कारणमिति वाच्यम् । 'गेहे रजतम्'इति वाक्यज्ञानादपि प्रवृत्तिदर्शनात् । तत्र चाकचिक्यादेरभावात् । नापि पुरोवर्तिनि रजतत्वप्रकारको यो भेदग्रहस्तस्याभाव इति वाच्यम् । अन्यथाख्यातिस्वीकारप्रसङ्गादप्रसिद्धत्वाच्च । तस्माच्छुक्तौ रजतमेवेदं प्रतीयते तेनं चेष्टसाधनतामनुमाय रजतार्थी प्रवर्तते, न तु रजतभेदाग्रहासादितेष्टसाधनभे दाग्रहेण इति सक्षेपः ॥ इत्यन्यथाख्यातिवादः ।
१. P reads प्रवृत्तिदर्शनात् । २. P reads पुरोवत्तिरजतत्वप्रकारक० । ३. P reads सामान्यरूपेण । ४. P reads दर्शितत्वात् । ५. P reads निवृत्तेति । ६. P reads विशिष्टज्ञानत्वेन प्रयोजकत्वस्वीकारात् । ७. P adds रजतार्थिप्रवृत्तेः । ८. P 'reads तत्र । ९. P reads इत्यन्यथाख्यातिप्रकरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org