________________
अपूर्ववादः। गौः पयः पिबतीत्यादौ तदभावात् । नाप्यन्या काचिद्योग्यताऽशक्यनिर्व चमात् । तस्मात् बाधकप्रमाणाभाव एव योग्यता, सा चात्र साधनत्वेन प्रकारेण विधते एव । न हि साधनत्वेन रूपेणाऽन्वयबाधः केनापि प्रमाणेन । न च नियमतो व्यापारपरंपरामादायैवान्वयबोधः । प्रमाणाभावात् । न च साक्षात् साधनताबाधे परम्परासाधनता प्रतीयत इति पतावत्र क्रिया: व्यापारे शक्तिरिति युक्तम् । छिद्रेतरत्वेऽपि. शक्तिकल्पनापत्तेः । न.पत्र नियमतः परम्परासाधनताप्रतीतिः । साक्षात्साधनत्वबाधाप्रतिसन्धानदशायां चरणप्रसारस्याप्यभावात् ।
किश्च साक्षात्साधनताबाधेऽपि न कारणतामात्रान्वयबाधः । कारणत्वं हि सामान्यम् । तत्र च साक्षात्वपरम्परात्वे विशेषणे । तथा च साक्षात विशेषणबाधात् तस्यान्वयो मा भवतु सामान्यान्वयस्तु केन वारणीयः, दण्डबाधे पुरुषान्धयवत् । एवं छिद्रबाधे छिद्रान्वयो मा भवतु घटत्वेनान्वयस्तु तत्राप्यविरुद्ध एव । घटत्वस्य छिद्रसाधारण्यादन्वयानुपपत्तिरिति चेन्न । तथात्वेऽपि योग्यतया छिद्रेतरत्वस्यैवान्वयात् । न तु छिद्रेतरत्वेन, युगपद् वृत्तिद्वयविरोधात् ।
न चोपलक्षणेन शक्तिग्रहः, उपलक्ष्यस्याभावात् । न चाऽपूर्वत्वमेव उपलक्ष्यम्, उपलक्षणेन समं तस्य सम्बन्धाप्रतिसन्धानात् । प्रतिसन्धाने वाऽपूर्षन्वक्षतेः । न च कार्यत्वेन रूपेण लिङादेः शक्तिरन्यत्र प्रयोगवारणार्थ पङ्कजपदे पद्मत्ववदपूर्वत्वं प्रयोगोपाधिरिति वाच्यम् । अप्रतीतस्ये प्रयोगोपाधित्वासम्भवात् । प्रयोगोपाधित्वस्यापि योगरूढिस्थले निरस्तत्वात् । न चैकत्र निर्णीतेन शास्त्रार्थेन नित्यनिषेधापूर्वयोर्लाभः, लोके क्रियाया; मेव शक्तेः । न चात्र लक्षणा प्रमाणाभावात् वैपरीत्यस्यापि सुवचत्वाच्च। अन्यथोपपत्तेर्दर्शितत्वाच्च ।
ब्रह्महत्यादिक्रियायाः नरकविशेषपाधनत्वग्रहोऽप्येवं न स्यात् । तत्र च परेण दुरदृष्टस्य कल्प्यत्वाऽभ्युपगमात् । अनुभवस्य स्मरणं प्रति संस्कार
१. P reads नान्यथा । २. P reads प्रमाणविरहः । ३. P reads अन्वयनिश्चयः केनापि प्रमाणेन बाध्यते । ५. P reads अशक्यत्वात् । ५. P reads विशेषणे बाधात् । ६. I. O. reads छिदस्यान्वयो मा भूत् , Ma reads छियान्वोधो मा भवतु । ७. P adds here घटत्वस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org