________________
न्यायसिद्धान्तदीपे द्वाराग्रह' कथं कारणता निश्चीयते । तत्रापि परोक्तदूषणगणस्यावकाशात् । तत्र द्वाराग्रहेऽपि साधनताग्रहे किमपराद्धं यागादिसाधनतया । तस्मादपूर्व एवायमपूर्वे वाच्यत्वाभिमानः परस्येत्युपरम्यते ।
. ननु कल्पनाऽप्यपूर्वे न सम्भवति । अन्यथोपपत्तेः । तथा हि यागध्वंस एवापूर्वस्थानऽभिषिच्यताम् । ध्वंसस्यानन्तत्वादनन्तफलप्रवाहापत्त्याऽनिर्मोक्षापत्तिरिति चेन्न । तावत्समयफलजनकत्वस्वाभाव्यस्यापूर्व इव ध्वंसेऽपि कल्पनात् । धर्मिकल्पनातो धर्मकल्पना लघीयसीतिन्यायस्यात्र जागरुकत्वात् ।
__“धर्मः क्षरति कीर्तनाद्" इत्यनेनैव धर्मस्य ध्वंसप्रतियोगित्वमवगम्यते। तत्तु ध्वंसस्य न सम्भवतीति विरोधात् । प्रायश्चित्तविधिवैफल्यप्रसङ्गात् । यागप्रतिबन्धकताभाच्चात्रैवमिति चेत्, अस्तु तावदेवं तथापि साक्षादेव यागेन शरीरविशेष एव जन्यते तेन च समयान्तरे स्वर्गों जन्यते । यद्वा कालपरम्परैव व्यापारोऽस्तु क्रियाया एवं स्थैर्य कल्प्यतामिति । मैवम् । न तावच्छरीरस्य व्यापारत्वम् । प्रलये तच्छरीरबाधेऽपि प्रलयानन्तरं स्वर्गादिरूपफलस्य प्रामाणिकत्वात् । प्रलये तच्छरीरं न पततीति चेन्न। धर्मिग्राहकेण प्रमाणेन प्रलयस्य सकलकार्यद्रव्यानाधारसमयत्वेन सिद्धत्वात् ।।
किश्च शरीरं प्रति न तावधागस्य साक्षाज्जनकत्वं सम्भवति । अतः परमाणुक्रियाद्वारा तद् वक्तव्यं तस्याश्च न यागजन्यत्वं, व्यभिचारात् । न च परमाणुक्रियैव काचिद्विशेषरूपा यागजन्या, सा च यागं न व्यभिचरतीति वाच्यम् । तद्विशेषकल्पनायां कल्पनागौरवात् । अक्लप्तकारणे विशेषकल्पनेन कारणान्तरप्रत्याख्याने ऽतिप्रसङ्गात् । अत एव समयकलापरम्परापि न यागव्यापारः। किश्चानुभवेऽप्येवंविधव्यापारेणान्यथासिद्धया संस्कारोऽपि न सिध्येत् । ननु व्यापारं विनापि यागः स्वर्ग प्रति कारणमस्तु । न च चिरध्वस्तस्य व्यापारद्वारा कारणत्वदर्शनाद् व्यापारं विना कारणत्वानुपपत्तिरिति वाच्यम् । व्याप्तो प्रमाणाभावात् । न चाऽत्राकारण निरन्वयध्वस्तयोरविशेषापत्तिः, कारणत्वस्यैव विशेषत्वादिति । एतदपि नास्ति कारणत्वस्य कार्याव्यवहितपूर्वसमयवर्तित्व - तत्पूर्वसमयवर्त्तिव्यापारवत्त्वान्यतररूपनियतत्वादिति सक्षेपः १९ ॥ श्रीः॥
१. P reads only द्वाग्रहे । २. P reads मा तावत् । ३. P reads जनकस्वभावस्य । ५. P drops -भयात् । ५. P reads शरीरं नश्यतीति । ६. P reads तद्विशेषकल्पनागौरवात् । ७. P reads क्लुप्तकारणान्तरप्रत्याख्याने. I. O. reads क्लुप्तकारणविशेषकल्पनेन. But गुणरत्न reads अक्लप्त० । ८. P reads कारणत्वचिरध्वस्तयोः। ९. P reads कार्याव्यवहितपूर्वसमयवत्तित्व-तद्वतिव्यापारवत्त्वान्यतर०। १०. M, reads curiously number 21 here. I.O. reads 20. P adds इत्यपूर्वप्रकरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org