________________
२१ अपूर्ववादः ।
ननु सर्वोपायत्वेन कार्यत्वेन वा रूपेण क्रियाया अन्वय इति न युक्तम् । तत्र नियोज्यकर्त्तव्यत्वावगमाभावात् । कामी हि काम्यादन्यत् काम्याव्यवहितसाधनमेव कर्त्तव्यतयाऽवैति । न च सस्यार्थिनः कर्षकस्य व्यवहितोपाये कर्षणेऽपि प्रवृत्तिदर्शनान्नायं नियम इति वाच्यम् । तत्रापि हि व्यापारपरम्परामन्तर्भाव्यैव तथावगमो नान्यथा । तथात्वे मानाभावात् साक्षात् साधनतारूपविशेषबाधे परम्परामादायैव सामान्यप्रत्ययाच्च । अत एव सच्छिद्रघटबाधे छिद्रेतरत्वेन रूपेण घटेन जलमाहरेदित्यादौ घटप्रतिपत्तिः ।
तु विधिप्रत्ययस्यापूर्वे' केन रूपेण शक्तिः किं कार्यत्वेन वा क्रियातिरिक्तकार्यत्वेन वा स्थिरकार्यत्वेन वाऽपूर्वेत्वेन वाऽन्यथैव वा । नाद्यः । क्रियासाधारण्यात् शक्याऽक्यसाधारणस्य शक्यत्वानवच्छेदकत्वात् । अन्यथा प्रमेयत्वेनैव सर्वत्र शक्तिः स्यात् । नेतरः । घटादिसाधारण्यात् । नापरः । तत्त्वादेव | नोपान्त्योपि । पूर्वमनुपस्थितेः । उपस्थितावपूर्वत्वव्याघाताच्च । न चरमोऽनिर्वचनात् ।
मैवम् । स्थिरकार्यत्वमेव कार्यत्वमेव वोपलक्षणीकृत्यापूर्वे प्रवर्त्तमानं लिपदं तर्कसंपादनया अपूर्वमवगमयति । न चैवं नित्यनिषेधापूर्वयोरलाभ - प्रसङ्गो दोषः । एकत्र निर्णीतेनाऽन्यत्रापि तथाकल्पनात् । न चैवं 'पुष्टिकामो घृतं पिबेत् इत्यादावपूर्वावगमप्रसङ्गः, वैदिकलिङत्वेन नियमात् । यद्वा लोके क्रियामात्रस्य तद्व्यापारस्य वा धातुसाम्यादेरेव लिङथत्वात् । न च नानार्थत्वापत्तिः लोके लक्षणयैवोपपत्तिरिति ।
अत्रोच्यते । साधनत्वस्य क्रियायामन्वययोग्यतया व्यापारे शक्तिरित्यभिमतं परस्य । एतच्चानुपपन्नम् । तथाहि का सा योग्यता या क्रियायां नास्ति । न तावत् सजातीये अन्वयदर्शनं, केन केन हि प्रकारेण साजात्यमभिमतमायुष्मता, न तावद्येन केनापि, 'अग्निना सिंचेत्' इत्यादावपि योग्यतापत्तेः । नापि पदार्थतावच्छेदकेन प्रकारेणे साजात्यम् । अद्यजातो
१- १ This is missing from M। २. P reads वैदिकलिङ्गेन । ३. P reads क्रियास्वतदूव्यापारस्य । ४. P reads only केन रूपेण । ५. Preads पदार्थतावच्छेदकरूपेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org