________________
न्यायसिद्धान्तदीपे नतानन्वये तदपर्यवसानम् । साधनत्वं हि साध्यान्वयं विना न पर्यवस्यति'। तथा च याग एव साध्यत्वेनान्वेति न तु लब्धपुरुषान्वयो निराकाङ्क्षः स्वर्गः । पचतीत्यत्र पाक इव यागोऽपि लब्धाऽन्वय इति चेत् । एवं हि तुल्यत्वेऽपि सन्निहिततया यागस्यैवे तथात्वमस्तु, इष्टोपायताविधाने तु यदिच्छाविषयत्वेनोपस्थितं तदेवान्धययोग्यमतस्तदभिधानमेव युक्तम् । अत एव "विश्वजिता यजेत" इत्यत्र तावन्नान्वयो यावन्नेष्टत्वेन स्वर्गोपस्थितिः।
कश्चित् पुनराह । इष्टसाधनत्वमित्यत्र निरुपाधीच्छाविषयत्वमात्रमिष्टत्वम्, न पुनरिच्छाविषयत्वमात्रं, तथा च स्वर्गेणैवान्वयो न यागेनेति । तन्न । तथात्वे हि अग्निकामो दारुणी मनीयात्' इत्यत्र साध्यत्वेन अग्नेरन्वयो न स्यात् । तस्माद् बलवदनिष्टाननुबन्धिस्वकृतिसाध्येष्टसाधनत्वमेव निष्फलानिष्टफलाभ्यां व्यावर्त्तमानं विधिरित्येव युक्तम् । 'श्येनेनाभिचरन् यजेत'इत्यत्र प्रायश्चित्तबलेन बलबदनिष्टानुबन्धान्न तदन्तर्भावेन विधिरिति चेन्न । तत्र योग्यतया साध्येष्टोपायत्वस्यैवान्वयात् । अपि च विहितम्लेच्छजनपदाभिचारमुद्दिश्य वेदे श्येनयागाभिधानं युक्तम् , अन्यथा वेदप्रणेतुः आप्तत्वं भज्येत । अत एव समस्तस्यैव विधेरन्वयो योग्यः, लोभादिवशात् अविहितब्राह्मणाभिचारमुद्दिश्यानुष्ठिते श्येने प्रायश्चित्तविधेरपि साफल्यमिति किमधिकेन ।
नन्वेवं जीवनयोनिप्रयत्नसाध्येऽभीष्टोपाये' च प्राणादिपञ्चके अपि किमिति न प्रवर्त्तते । मैवम् । प्राणादिपञ्चकं हि जीवनयोनिप्रयत्नसाध्यं, तक्रिया वा । नाद्यः । प्रमाणाभावात् । द्वितीये तु प्रवृत्तिः स्यात् इत्यत्र प्रवृत्तिपदेन किमभिमतम् । प्रयत्नमात्रं वा तद्विशेषः कृतिर्वा । नाद्यः। इष्टापादनात् भवत्येव जीवनयोनिप्रयत्नो यतः । नापरः । प्राणादिपश्चकक्रियायाः कृत्यसाध्यत्वात् । जीवनयोनिप्रयत्नसाध्या हि सा । न चासौ कृतिः चिकीर्षायोनिप्रयत्नस्यात्र कृतित्वेनाभिमतत्वात् । अन्यथेष्ट
१. P reads साधनतासामान्यं हि साध्यसामान्यान्वयमादाय पर्यवस्यति । २. P misses यागस्यैव । ३. P reads oविधित्वे । ४. P reads (अ)नुबन्धानुसन्धानात् । ५-५. This is missing in M, । ६. P reads अपीष्टोपाये । ७-७. This is missing from P । ८. Mg reads अभिप्रेतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org