________________
विधिवादः। नन्वेवं कथं सन्ध्योपासने प्रवृत्तिरिष्टोपायताया अभावादिति चेत् । आपाततस्तावदेवम् । उपासनस्य वेदबोधितत्वेन कर्तव्यतयाऽनुमायानन्तरम् "अकुर्वन् विहितं कर्म" इत्यादिवाकयानुसन्धानादनुपासनस्य प्रत्यवायहेतुत्वे.. ऽवगते तद्व्यतिरेकरूपस्योपासनस्य काम्यत्वमार्य तदुपाये प्रवर्तते । न तूपासन एव । उपासनस्यायोग्यत्वात् । प्रकरणाद्यपस्थापितोपासनोपायेनैक साधनतान्वय इत्यपि कश्चित् ।।
नन्विष्टसाधनताविधिक्षऽपीच्छाज्ञानं प्रवर्तकं स्यात् । इच्छाविषयितावच्छेदकप्रकारवत् प्रतियोगिकसाधनताज्ञानं प्रवर्तकमित्यपि न समीचीनम् । अत्रापि होच्छा विशेषणं उपलक्षणं वा । आये तदभानस्यापि प्रवर्तकत्वापत्तिः । द्वितीयेऽनुगतस्यैकस्योपलक्ष्यस्याभावात् अननुगमापत्तिः । न चेच्छान्तर्भावेन शक्तिकल्पना युक्ता। इच्छाया स्वरूपसत्या एव प्रवतकत्वात् । न चेष्टत्वमुपलक्षणीकृत्य स्वर्गोपायत्वादावेव विधिप्रत्ययस्य शक्तिः । अनेकार्थत्वप्रसङ्गात् । न च साधनतामात्रं शक्यम् । तन्मात्रज्ञानस्याप्रवर्तकत्वात् । सिद्धान्तव्याकोपाच्चेनि ।
मैवम् । साधनतामात्रमेव विधिप्रत्ययशक्यम् । न चैतावता लकारान्तरसाम्यापत्तिः। विधिप्रत्ययस्येतरलकारसाधारण्ये नानुकूलप्रयत्नोपस्थापकत्वेऽप्यसाधारण्येन साधनताया अप्युपस्थापकत्वात् । स्वर्गसाधनत्वादिकं तु समभिव्याहारलभ्यम् । इष्टसाधनता शक्येतिपक्षेऽपि स्वर्गादिविशेषोपायतालाभार्थः समभिव्याहारविशेषालम्बनप्रवर्तकतर्कस्योपजीव्यत्वात्। इष्टसाधनता शक्ये ति व्यवहारस्तु वाक्यार्थत्वाभिप्रायेण न तु पदार्थाभिप्रायेणेति" न सिद्धान्तव्याकोपोऽपि । किञ्च फलेच्छा यद्यपि स्वरूपसत्येव प्रवत्तिका तथापि इष्टत्वे लिङादिशक्तिरङ्गोकार्या। अन्यथा स्वर्गौपायत्वादेरलाभात् । न च समभिव्याहारबलेन स्वर्गादिसाधनत्वलाभः, समभिव्याहारादपि तदेवान्वेति यद्विनाऽन्वयापर्यवसानम् । न हि 'स्वर्गकामो यजेत''इत्यत्र स्वर्गेण समं साध
- १. P misses अनुमायानन्तरम् । २. P misses (उ)पासनस्य । ३. P reads (इष्टसाधनतापक्षे । ४. P reads प्रतियोगिसाधनताज्ञानम् । ५. P reads तज्ज्ञानस्य । ६. M+Mg drop एकस्य । ७. P reads चेच्छामुप लक्षणोकृत्य । ८. P reads विशेष. लाभार्थम । ९ P reads विशेषालम्बनेन प्रवर्तकस्योपजीव्यत्वात् । १०. P misses म तु पदार्थाभिप्रायेनेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org