________________
न्यायसिद्धान्तदीपे
पासनेन जन्यते । तच्च प्रत्यवायविरोधित्वेन काम्यं न त्वपूर्वत्वेनेति नापू त्वक्षतिरिति' । तत् पूर्वोक्तेनैव विकल्पेन दूषितम् । तथाभूनेऽपूर्वे प्रमाणाभावाच्च । अन्यथाऽनुपपच्या कल्पनीयमिति चेन्न । अन्यथोपपत्तेर्वक्ष्यमाणत्वात् । तस्मान्नित्यस्थले काम्याभावादिष्टसाधनताविधिरिति मनोरथमात्रम् । मैवम् । यत् तावदुक्त सन्ध्योपासनं प्रयोजनं न सम्भवति मुख्यगौणविकल्प गलितत्वात् तदयुक्तम् । मुख्य एव प्रयोजनेऽन्तर्भावात् । समानाधिकरणेच्छाजन्येच्छाविपयत्वस्य प्रयोजनाजनक प्रयोजनत्वस्य वा मुख्यप्रयोजनलक्षणत्वात् । एतदेव निरुपाधीच्छाविषयत्वमिति गीयते । न चैतलक्षणद्वयमुपासनेऽसिद्धम् । तथाहि उपासनस्य दुःखहेत्वभावत्वेन काम्यत्वम् ।
न च दुःखहेत्वभावः किञ्चिदर्थानुकूलतया काम्यते किन्तु स्वरूपत एव, सर्पकण्टकादिपरिहारे" तथावधारणात् ।
न चैवं मुख्यं द्विविधं सुखं दुःखाभावश्चेति विभागानुपपत्तिः, दुःखाभाव इत्यत्र दुःखपदेनैकविंशतिप्रभेदभिन्नस्य दुःखस्य विवक्षितत्वात् । यद्वा गौणमेवेदं प्रयोजनम् । ननु कथं गौणत्वं किञ्चित्प्रयोजनकं हि गौणं भवति । न चानेन किञ्चित् प्रयोजनं जन्यते । एतदपि न । साधनताज्ञानजन्येच्छा विषयत्वस्यैव गौणलक्षणत्वात् । एतदसिद्धमिति चेन्न । यद्यपि हि न सन्ध्योपासनस्य स्वतः किञ्चित् प्रयोजनं प्रति साधनता तथाऽप्यनुपासनस्य प्रत्यवायप्रतियोगिकसाधनताज्ञानजन्येच्छाविषयत्वम् । तदभावत्वेन सन्ध्योपासनस्य सम्भवत्येव सर्पोपसर्पणस्य दुःखहेतुत्वज्ञानजन्ये च्छाविषयत्वं तदभावस्वरूपत्वेनापसर्पणस्येतिवत् । एवं सन्ध्योपासनस्य प्रयोजनत्वे व्यवस्थिते तद्भावनाया एव इष्टोपायत्वेनान्वयः । यद्वा लिङ्गदेनोपस्थिता पीष्टसाधनता इष्टाभावात् सन्ध्योपासने नान्वीयते । न चैतावता इष्टसाधनताक्षतिः लिङादेरिष्टसाधनतायामेव शक्तेरवधारणात् ।
८४
१. M reads οरित्यपि पूर्वोक्तेनैव । २. P drops न । ३. P reads काम्यादिष्टसाधनं 1४. P reads oगलितत्वात्, I. O reads विकल्पेन पीडितत्वात् । ५. P drops द्वयम् । ६. P drops तथाहि । ७ Mg reads सर्वत्र कण्टकादिपरिहारे । ८. Mg drops इदम् । ९ Preads सम्भवति । १०. Preads साध्यताज्ञान ० । ११. P reads साधनम् । १२ P reads दुःखहेतुज्ञानजनितेच्छाविषयत्वम् । १३. P reads अंशोपायत्वेनान्वयः । १४. P reads नानुमीयते ।
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org