________________
विधिवादः। ऽपि निषेधस्य “यजतिषु ये यजामहं कुर्वन्ति नानुयाजेषु"इति यथानुयाजेतरस्य यजतिष्विति पर्युदासेनार्थों लभ्यते तथात्राप्यनिष्टसाधनमित्यर्थः पर्यवस्यतीति वाच्यं, वाक्यभेदभयाद् गत्यन्तराभावात् तत्र तथाकल्पनात् । अत्र तु तदभावादिति । मैवम्' । बलवदनिष्टानुबन्धिज्ञानस्य हि प्रवृत्तिप्रतिबन्धकत्वे तदभावस्य कारणता वाच्या । तदा विनिगमनाभावात् तदभावबलवदनिष्टाननुबन्धित्वज्ञानयोरपि कारणत्वम् ।
एवं बलवदनिष्टाननुबन्धीष्टसाधनताविधिरिति । स एव लिङादिप्रत्ययवाच्यः। तथा च बलवदनिष्टाननुबन्धेन विधिप्रत्ययोपस्थाप्येन विशेषणेन नत्रोऽन्वय इत्यनिच्छयाऽपि स्वीकरणीयम् । अन्यथा कार्यताविधिवादिनाऽपि किं वक्तव्यम् । न हि तस्यापि चिकीर्षानन्यकृतिसाध्यत्वं कलञ्जभक्षणस्य निषेध्यं, बाधात् । नाऽपि कलनभक्षण निवृत्तिनियोगो वाच्यः । फलाभावेन तथाभूते नियोगे प्रमाणाभावात् । नापि कलकनभक्षणप्रागभावः साध्यः । तस्यानादित्वेनासाध्यत्वात् । न च योगवत् क्षेमस्यापि पुरुषार्थत्वात् प्रागभावपरिपालनमेव वाच्यम् । न, प्रागभावस्योत्तरावधित्वनियमेन तत्परिपालनस्याशक्यत्वात् , तदन्यस्य तत्र निषेधस्यासम्भवादिति ।
। नन्वहरहः सन्ध्यामुपासीतेत्यत्र किमिष्टं यत् प्रति साधनत्वं बोध्यम् । न तावत् प्रत्यवायपरिहारः, प्राक्प्रत्यवाये" प्रमाणाभावात् । नापि रात्रिकृतपापाभावः सर्वत्र तदभावात् नित्यताविरोधाच्च । अहरहः स्नायादित्यत्र तदभावात् । न चानुपासनं प्रत्यवायहेतुरतस्तदभाव एवोपासनं साध्यते इति वाच्यम् । उपासनस्य फलत्वे साधनत्वेनान्वयानुपपत्तेः । न चोपासनं प्रयोजनं सम्भवति । तद्धि मुख्यं वा गौणं वा । नाद्यः । सुखदुःखाभावयोरेव तथात्वात् । नेतरः । प्रयोजनोपायस्यैव तत्त्वात्। न च सैन्ध्योपासनेन किश्चित् प्रयोजनं जन्यते । यत्तु कैश्चिदुक्तं प्रत्यवायविरोध्येवाऽपूर्व सन्ध्यो
P drops मैवम् । २. P reads कारणत्वात् । ३. P reads (इ)ष्टसाधनं विधिः । १. P reads वाच्यं । ५. M, reads भक्षणे निषेधनियोगः । ६. P reads फलाभावे च । ७. P reads .भक्षणस्य प्रागभावः । ८. P reads कर्तुमशक्यत्वात् । ९. P+M, read प्रतिसन्धानेन । १०. P reads प्रागप्रत्यवाये। ११. P+I. O. read तदभावश्चोपासनं साध्यम्। १२. Preads तथास्वात् । १३. P drops सन्ध्या- ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org