________________
સ્
न्यायसिद्धान्तदीप
ताज्ञानमात्रं प्रवर्त्तकमित्युक्तं प्राक् । इष्टसाधनतारूपलिङ्गधी पूर्वककृतिविशेषसाध्यताज्ञानापेक्षया कृतिसाध्येष्टसाधनताज्ञानस्य लघुत्वात् । तव तु त्रयं मम तु द्वयमिति विपरीतमापतितम् । अत एवानाप्तोक्ते मण्डलीकरपादौ साधनताभ्रमात् प्रवृत्तोऽपि विशेषदर्शनानन्तरं कृतिविशेषसाध्यताप्रतिसन्धानेऽपि न प्रवर्त्तते । तस्मात् सतोऽसुन्दरे विषये यावत् कृतिसाध्येष्टसाधनता न प्रतिसन्धीयते तावदेवोपायार्थी चिकीर्षतीति मनोरथमात्रमेव परेषां तदुपजीवने तु तदेव युक्तमुत्पश्यामः ।
"
न च साधनता विधिपक्षे 'तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजते ' इत्यनेनैव साधनतालाभात् नानेन साधनताप्रतिपादकविध्यनुमानमिति वाच्यम् । अविनाभावबलेन हि विधिकल्पनं व्यापकबाधेन व्याप्यबाधशङ्कोद्धारणार्थं वा न तु साधनतालाभार्थम् ।
3
नन्त्रिच्छात्वावच्छिन्नकार्यताप्रतियोगिककारणतावच्छेदकं किं ज्ञाननिष्ठमिति वक्तव्यमनुगतम् । न किञ्चिदिति ब्रूमः । तर्हि ज्ञानस्येच्छायां कथं कारणत्वम्, स्वर्गे सुखत्वप्रकारकज्ञानात् दुःखामावे च तत्प्रकारकज्ञानात् तदुपाये साध्ये तदुपायताज्ञानादिति गोमयादिप्रभर्वेषृश्चिकवदित्यवधातव्यम् | अन्यथा कार्यताविधिवादिनापि किमत्र वक्तव्यम् । तथाहि - चिकीर्षाजन्यकृतिविशेषसाध्यताज्ञानं न सर्वत्रेच्छाकारणं, असाध्येऽपि तक्षकचूडारत्नादाविच्छादर्शनात् कृतिविशेषसाध्यत्वाप्रतिसन्धानेऽपि स्वर्गादविच्छादर्शनादित्यलमतिपीडया ||
ननु हितोपायता विधिवादिनां' 'न कलजं भक्षयेत्' इत्यादौ किं निषेध्यम् ? न तावत् कलञ्जभक्षणस्य हितोपायत्वं बाधादित्युक्तत्वात् । नापि बलवदनिष्टाननुबन्धः । तज्ज्ञानस्याप्रवर्त्तकत्वेन तस्य विधिप्रत्ययानुपस्थाप्यत्वात् ' तदुपस्थितेनैव निषेधान्वयात् । न च बलवदनिष्टानुबन्धित्वप्रतिसन्धानेऽपि ' प्रवृत्त्यापत्तिः, तत्प्रतिबन्धकत्वस्य प्रागेवावेदितत्वात् । न च क्रियान्वये -
13
१. Mg adds गौरवमिति here । २-२. This portion is missing in P । ३. P reads शङ्कावारणार्थन् । ४. P+M read गोमयादिवृश्चिकवत् । ५. P reads कार्यविधिवादिना । ६. न is missing in P P+I O read सुखादौ । 2. Prais हितोपायनाविवादिना । ९ P reads हितोपाय साबधात् । १०. Preads (उ) पस्थाप्यत्वाभावात् । ११. Preads निषेधान्वयः । १२. P reads बलवदनिष्टाननुसन्धा१३. Preads प्रागेवोदितत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org