________________
विधिवादः। विशेषप्रवृत्त्यापादने त्वतीतत्वात् । साध्यत्वाभावेनापादकत्वाभावात् । नन्वेवं स्वर्गार्थी स्वचिकीर्षाजेन्यकृतिसाध्यताज्ञानात् प्रवर्तते, स्वर्गाथिचिकीर्षाजन्यकृतिसाध्यत्वं तु दण्डादिसाधारणमतस्तत्रापि प्रवृत्तिप्रसङ्ग इति । मैवम् । स्वर्गेष्टसाधनतालिङ्गकचिकीर्षाजन्यकृतिसाध्यताज्ञानस्य प्रवृत्तिं प्रति जनकत्वात् । न च तद्धेतोरेवास्तु, तेन किमिति न्यायेनेष्टसाधनताज्ञानमेव प्रवर्तकमस्त्विति वाच्यम् । इष्टसाधनताज्ञानेऽपि अस्य ज्ञानस्य तुल्यत्वात् । न च दण्डादौ तथाभूतं ज्ञानम् । यदा तु तथाभूतो भ्रमो भवति तदा प्रवर्तत एव । स्वर्गाथिचिकीर्षाजन्यकृतित्वेन रूपेण यत् कृतिसाध्यं तत् ज्ञानस्य वा प्रवर्तकत्वमिति ।
अत्रोच्यते । तदर्थिचिकीर्षाजन्यकृतित्वेन रूपेण साध्यत्वं तत्साधनेऽपि नास्ति अन्यथा भ्रमात् प्रवृत्तस्य घटपटादिचिकीर्षाजन्यकृतितो दण्डाधुत्पत्तिर्न स्यात् । न चाष्टापत्तिः, तथाभूतकृतेरपि दण्डाद्युत्पत्तिदर्शनात् । किञ्चानुपाये उपायार्थी प्रवर्त्तमानो यदि कृतिविशेषसाध्यताज्ञानात प्रवर्तते इति स्वीकर्तव्यम् , तदानुपायताप्रतिसन्धानदशायामपि चिकीर्षाजन्यकृतिसाध्यताज्ञानसम्भवात् तत्रापि प्रवृत्तिप्रसङ्गः । न च तत्रानुपायताप्रतिसन्धानमेव निवर्तकम्, एवं सत्यनुपायताप्रतिसन्धानाभावः कारणम् इति वाच्यम् । तथा चोपायताज्ञानमेव स्वोकतुं युक्तम् , लाघवात् ।
. एवं मण्डलीकरणादावपि स्वर्गकामचिकीर्षाजन्यकृतिसाध्यताज्ञानात् प्रवर्तत इति वाच्यम् । तथा च तत्र तस्य सत्त्वात् तद्बोधकस्य वाक्यस्य प्रमाणत्वापत्तिः । न च तत्र स्वर्गसाधनताबाधाच्चिकीर्षाजन्यकृतिविशेषसाध्यताबाधः-इति युक्तमसाधनेऽपि तथाभूतचिकीर्षासम्भवस्य पूर्वमुक्तत्वात् । न चेष्टसाधनतालिङ्गककार्यताज्ञानस्यापि प्रवर्तकत्वमिति वाच्यम् । व्यभिचारेण लिङ्गत्वायोगात् । न चेष्टसाधनतालिङ्गककार्यताज्ञानं यागादो संभवत्यपि, कार्यताविधिपक्षे इष्टसाधनत्वस्यैवालाभात् । यथाकथञ्चिद् लाभे वा तत्प्रवर्तकत्वमस्तु, कार्यताज्ञानेऽपि तस्यैवोपजीव्यत्वात् । न हि कार्य१. P reads स्वर्गचिकीर्षाजन्य० । २. Preads पक्षस्य, I. O. reads न्यायस्य । ३. P drops यदि and reads ज्ञप्तिकृतिः । ४. P reads अतिप्रमशः । ५.
M, repeats here several lines | ६. P reads बोधवाक्यस्य । ७. P reads अवसानेऽपि । ८. P reads कार्यतापक्षे । ९. M1 reads अभावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org