________________
न्यायसिद्धान्तदीपे किञ्च इष्टोपायताज्ञानमिच्छाद्वारा कारणं तच्चेच्छाजनकत्वे सति सिध्यति । इच्छाजनकत्वं चेष्टसाधनताज्ञानस्य न सम्भवति व्यभिचारात् । तथाहि-किं तस्येच्छामात्रं वा जन्यम् इच्छाविशेषः चिकीर्षा वा । न तावदाधः । उपायताज्ञानं विनापि स्वर्गे भोगे चेच्छादर्शनात् । न द्वितीयः स्वर्गादावपि चिकीर्षादर्शनात् । । कृत्या साधयितुमिच्छा हि चिकीर्षा सा स्वर्गादौ न दण्डवारिता ।
किं. चेष्टसाधनत्वस्य न विधित्वम् , अहरहः सन्ध्यामुपासीतेत्यादौ इष्टाभावेन तदुपायत्वासम्भवात्। न कलजं भक्षयेदित्यादौ चोपायताविधिपक्षे किं निषेध्यम् । इष्टोपायत्वमिति चेन्न । बाधात् । न हि कलजभक्षणं न किश्चिदिष्टं प्रति साधनम् । पर्युदासवृत्त्याऽनिष्टसाधनत्वं विधीयत इति चेन्न, नमोऽसमस्तत्वात् क्रियानुविधायित्वाच्च । न च बलवदनिष्टाननुबन्धो निषिध्यते इति । भवेदेवम् । यदि बलवदनिष्टाननुबन्धीष्टसाधनत्वं विधिः स्यात् । नत्वेवं, किन्तु बलवदनिष्टानुबन्धित्वप्रतिसन्धानस्य प्रतिवन्धकत्वमिति । नन्वेतावतापि कार्यत्वं विधिरिति न नियंढम् । एतावदेव प्रकृते साध्यमिति चेन्न । कार्यताविधिवादिनोऽभिप्रायापरिज्ञानात्। तथाहि-चिकीर्षाजन्यकृतिसाध्यत्वमेव तावत् कार्यत्वम् । न च चिकीर्षाज्ञानस्यापि प्रवर्तकत्वप्रसङ्गः । तस्याः कृतिविशेषोपलक्षकत्वात् । तस्य च कृतिविशेषस्य गुणजात्यनङ्गीकारवादिनामपि चिकीर्षाकारणत्वनिर्वाहार्थ स्वीकर्तव्यत्वात् । अन्यथा कीदृशं प्रयत्नं प्रति चिकीर्षा कारणं स्यात् । प्रयत्नमात्रे व्यभिचारात् । गुणगतजातिवादिनां तु चरणप्रसारिकायाँ अप्यसम्भवात् । तथाच कृतिविशेषसाध्यत्वमेव विधिः कृतिसाध्येष्टसाधनत्वापेक्षया तस्य' लधुत्वात् । स्वर्गापवर्गादीन् प्रति साधारणत्वाच्च ।
न च श्रमेऽपि प्रवृत्तिप्रसङ्गः । श्रमस्य चिकीर्षाजन्यकृतित्वेन कृत्यसाध्यत्वात्। द्वेषयोनिप्रयत्नादपि श्रमदर्शनात् । न च चिकीर्षाजन्यकृतिसाध्यत्वेनातीतभोजनादौ प्रवृत्तिप्रसङ्गः। सामान्यत इष्टापादानात् समय
१. P reads (अ)सद्भावात् । २. P reads अनिष्टसाधनम् । ३. P reads नमोऽसम्भवात् । ४. Preads प्रति साधनस्य । ५. P reads (अनभिज्ञानात् । ६. 1.
. reads प्रवृत्तिप्रसङ्गः । ७. I. O. reads तयास्याः । ८. Preads कृतिसाध्यविशेषस्य । ९. P reads .मात्रं प्रति । १०. P reads करया अप्यनुपपत्तेः । ११ P drops तस्य । १२. P कृत्या साध्यत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org