________________
विधिवादः। श्यं कल्पनीय, तत् किं कलप्तसाध्यत्वं कल्पतामुत तद्विजातीयं साधनत्वमेव वा । तत्र द्वितीये पक्षे गौरवात् प्रथम एव ज्यायान् । इदमेव चोच्यते । "परेषामणुरपि विशेषोऽध्यवसायकर'' इति ।
न च फलविशेष्यकेण प्रत्ययेन कथं साधने प्रवृत्तिरिति वाच्यम् । साधनस्यापि प्रकारतया तद्विषयत्वात् । विशेष्यत्वस्य प्रवृत्तावतन्त्रत्वाद् । कृतिसाध्यो यागः स्वर्गमाधक इति यागविशेष्यकस्यापि ज्ञानस्य सम्भवादिति । मैवम् । यथा साजात्यं तव विनिगमकं तथा ममापि क्लुप्तकृतिसाध्यत्वप्रकारस्य साधनत्वसामान्याधिकरण्यं विनिगमकम् । तथा च साध्यसाधनताज्ञानस्यैवे प्रवर्तकत्वं नतु साध्यप्रयोजनज्ञानस्य । किश्च कृतिसाध्यत्वमुपजीव्यमेव नेष्यते अपि तु कृतिसाधनको यागः स्वर्गसाधनमिति ज्ञात्वा प्रवर्तते । तथा च "अणुरपि विशेषोऽध्यवसायकर" इति उभयत्र दत्तपदं नैकत्र पक्षपातमालम्बते । तत्रापि विनिगमनाविरहेऽपि न काचित् क्षतिरिति ध्येयम् ।
नन्वेवमिष्टसाधनताज्ञानस्यापि न प्रवर्तकत्वम् । असाध्येऽपीष्टसाधने प्रवृत्तिप्रसङ्गात् । कृतिसाध्यत्वेन विशेषणान्नैवमिति चेन्न । अन्यक्रियमाणे कारीर्यादावपि प्रवृत्तिप्रसङ्गात् । स्वकृतिसाध्यत्वेन विशेषणान्नैवमिति चेन्न । स्वकृतिसाध्ये अन्येष्टपाधने स्वानिष्टसाधने प्रवृत्तिप्रसङ्गात् । इष्टत्वमपि स्वीयत्वेन विशेषणीयमिति चेन्न । तथाभूतेऽतीतभोजने प्रवृत्तिप्रसङ्गात् । साध्यत्वसाधनत्वयोर्विरोधाच्च । न हि यदेवोत्तरभावि तदेव पूर्वभावि सम्भवति । निरूपकभेदेनाविरोधे पूर्वदोषापरिहारात् । स्वकृतिव्यतिरेकेण यन्न सिध्यति स्वेष्टसाधनं चेति ज्ञानान्नैतद्दोष इति चेत् न । अल्पेष्टसाधने" प्रवृत्तिप्रसङ्गात्। कि च यत् प्रति साधनत्वं तदिष्टं कि विवक्षितम् । वर्तमानेच्छाविषयत्वं इति चेन्न । इच्छाज्ञानस्यापि प्रवर्तकत्वप्रसङ्गात् । इच्छाविषयतावच्छेदकरूपवत्प्रतिसन्धानमिति चेन्न । तत्त्वादेव । इच्छोपलक्षणं, ने विशेषणमिति चेन्न । स्वर्गापवर्गगतस्यैकस्योपलक्षणस्याभावेनाऽननुगमात् ।
१. P reads तद्विजातीयसाधनम् only । २. P reads परेषां मनुरपि । ३. P •eads विशेष्यस्य । ४. P reads साध्यताप्रका' कस्य सामानाधिकरण्यम् । ५. P reads ध्यसाधकभावस्य प्रवर्तकत्वं न तु साध्यप्रय जनतेति । शेषानन्त supports the reading n P । ६. P reads पक्षायतम् । ७. P drops स्वानिष्टसाधने । ८. P drops न । ९. P reads रूपमेदेन । १०. P reads नैवम् । ११. M, adds बह्वनिष्टसाधने च। १२. Mg+P read ० रूपवत्त्वमिति प्रतिसन्धानम् । १३. P misses न विशेषणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org