________________
न्यायसिद्धान्तदीपे इच्छामात्रकारणीभूतज्ञानविषयत्वं वा चिकीर्षाकारणीभूतज्ञानविषयत्वं [वा इच्छामात्रकारणीभूतज्ञानविषयतावच्छेदकरूपवत्त्वं वा पाठः चिकीर्षाकारणीभूतज्ञानविषयतावच्छेदकरूपवत्वं वा कृतिसाध्यत्वे सति स्वरूपमेव वा चिकीर्षाजन्यकृतिसाध्यत्वं वा अन्यद्वा । नाद्यः स्वानिष्टे परेच्छागोचरे प्रवृत्तिप्रसङ्गात् । न द्वितीयः । सुखे दुःखाभावे भोगे च प्रवृत्तिप्रसङ्गात् । यागादावुपायत्वातिरिक्तस्यावच्छेदकस्य निर्वक्तुमशकयत्वात् । न चेष्टत्वमेव तदवच्छेदकमात्माश्रयप्रसङ्गात् । न तृतीयः । चिकीर्षाज्ञानस्यापि प्रवर्तकत्वप्रसङ्गात् । अन्योन्याश्रयप्रसङ्गाच्च । चिकीर्षायां सत्यां तद्बोधो यागादौ चिकीर्षा च तस्मिन् सतीति । नापि चतुर्थः । अननुगमात् । अनुगतस्य निवक्तुमशक्यत्वात् । शक्यत्वे वा उपजीव्यत्वे तज्ज्ञानस्य प्रवर्तकस्यौचित्यात् । न पञ्चमः। परेच्छाकारणीभूतज्ञानविषयेऽपि प्रवृत्तिप्रसङ्गात् । स्वीयविशेषणेऽपि ज्ञानज्ञानस्यापि प्रवर्तकत्वापत्तेः । अत एव न षष्ठः। नापि सप्तमः । तस्यैव ज्ञानस्य निरूपयितुमशक्यत्वात् । नाष्टमः । स्वरूपमात्रज्ञानस्याप्रवत्तैकत्वात् । स्वरूपविशेषाभिधानेऽपि तस्यैव निर्वक्तव्यत्वापातात् । नोपान्त्यः । श्रमस्यापि चिकीर्षाजन्यकृतिसाध्यत्वेन तत्रापि प्रवृत्तिप्रसङ्गात् । चिकीर्षाज्ञानस्यापि प्रवर्तकत्वापाताच्च । नान्त्योऽनिर्वचनात् ।
नन्वस्तु चरमः पक्षः। तथाहि-मत्कृतिसाध्ययागसाध्यः स्वर्ग ईत्येतदेवाभिसंधाय यागे प्रवर्तते । इदमेव परेषां कार्यतापदेन विवक्षितम् । स्वप्रवृत्ताविदमेव ज्ञातं सत् कारण बालस्यापि स्तनपानादिप्रवृत्तौ संस्कारवशादुन्नेयम् । न च साधनतया समं समानसंविसंवेद्यतया विनिगमनाविरह इति वाच्यम् । समानसंविसंवेद्यत्वस्यैवासिद्धत्वात् । तथाहि यागसाध्यस्वर्ग इत्यत्र यागनिरूपितनियतोत्तरभावः स्वर्गे प्रतीयते न तु स्वर्गनिरूपितनियतपूर्वसत्त्वं यागे । ननु यत्र घटसाधनं दण्ड इति वाकयात् प्रथमत एव साधनता प्रतीयते तत्र किं तज्ज्ञानान्न प्रवर्तते । आपाततस्तावदेवं किन्तु साधनताज्ञानानन्तरं देण्डसाध्यो घट इत्यनुमाय प्रवर्त्तते । तत्र किं विनिगमकमिति चेत् शृणु । तवापि तावत् कृतिसाध्यत्वमवश्यमुपजीव्यं तत्र विशेषणान्तरमव
१. M, reads चिकीर्षाज्ञानज्ञानस्यापि । २. P reads सञ्चिकीर्षायाम् । ३. P reads अननुगतस्य । ४. Mg reads प्रवर्तकत्वात् । ५. P adds तथाहि । ६. P reads भ्रमस्यापि । ७-७ This is missing in P । ८ P reads साध्याः स्वर्गजाः। ९. P misses साधनया समम् । १०. P reads वाक्याश्रयमत । ११-११ This portion is missing from PI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org