________________
विधिवादः ।
७७ प्रवृत्तेरभावादावश्यकत्वात् शब्दजायामपि प्रवृत्तौ सङ्कल्पस्य ज्ञानमेव हेतुतयानुमिनोति । तथा च स एव लिङाद्यर्थः । तेन्न । सङ्कल्पस्य चिकीर्षारूपत्वे. नोक्तदोषानुकूलत्वात् । अतिरिक्तत्वे मानाभावात्
किच्चेदमत्राऽऽलोचनीयं किं यस्मिन् जाते प्रवृत्तिरथ यस्मिन् ज्ञाते प्रवृत्तिः, स लिङाद्यर्थः । आधे ज्ञानादेरपि प्रवर्तकज्ञानविषयभावकल्पनप्रसङ्गः। द्वितीये तु सङ्कल्पस्य स्वरूपसत एव प्रवर्तकत्वात् कथमसौ ज्ञाप्यः।
सप्तमस्तु वक्तुरभिप्रायो ज्ञानं वा इच्छा वा । आधे अग्निकामस्य दारुमथनभावना वक्तुतेित ज्ञानमुत्पाद्यम् । न चैतावता प्रयोज्यस्य प्रवृत्तिः, न चेष्टोपायतामनेनानुमाय प्रवर्त्तते' इति वाच्यम् । अनिष्टहेतोरप्याप्तेन वक्त्रा ज्ञायमानत्वात् । द्वितीये तु सा वक्त्रा विशेषिता अविशेषिता वा । न उभयथाऽपि तज्ज्ञानादप्रवृत्तिः । अपि च सहप्रयोगप्रश्नोत्तरहेतुहेतुमद्भावानुपपत्तिभीतैरत्रभवद्भिर्नेष्टोपायत्वादिर्लिङाधर्थोऽभ्युपेयते । नूनं वक्त्रभिप्रायार्थत्वेऽपि ममेदं त्वया क्रियमाणमिष्टमतः कुरु किमित्येवं कर्तव्यं यतः त्वत्कृतिरत्र ममेप्सिता इत्यादेर्भयहेतोरत्रापि सत्त्वादिदमपि नाङ्गीकारमर्हति । न चेच्छाथत्वमाज्ञादौ क्लुप्तमिति तदनुरोधेनात्रापि तथा कल्पनम् । सह प्रयोगानुपपत्तेरेव ।
नाप्यष्टमः । तथाहि-किं तत्कार्यत्वं कृतिसाध्यतामात्रं वा स्वकृतिसाध्यतामात्रं वा स्वकृतिसाध्यत्वे सत्युद्देश्यता वा । नाद्यः । कृतिसाध्ये विषभक्षणादौ प्रवृत्तिप्रसङ्गात् । स्वकृत्यसाध्येऽप्यन्य कृतिसाध्यतामादाय प्रवृत्तिप्रसङ्गाच्च । न द्वितीयः । विषभक्षणादौ" अनिष्टेऽपि स्वकृतिसाध्ये प्रवृत्तिप्रसङ्गाच्च । न तृतीयः । उद्देश्यत्वस्यैव निर्वक्तुमशक्यत्वात् ।
तथाहि-किमुद्देश्यत्वं इच्छामात्रविषयत्वं वा इच्छामाप्रविषयत्वावच्छेदकरूपवत्त्वं वा चिकीर्षाविषयत्वं वा चिकीर्षाविषयतावच्दछेकरूपवत्त्वं वा
१. P+I. O. drop प्रवृत्तिः । २. P reads प्रवर्तकज्ञानस्यापि प्रवृत्तज्ञानविषयः । ३ I.O. adds अग्निकामो दारूण। मध्नीयादित्यत्र । ४. P reads .वक्तृज्ञानेति। ५. P reads प्रवर्तताम् । ६. P reads (अ)व्याप्तेन । ७. P reads ननु । ८. P reads दुरात्वम । ९. P reads स्यात् । इदमपि नाङ्ग तथा कल्पमम् । १०. P reads परकृतिः । ११. P+I. O. drop विषभक्षणादौ । १२. There are in all 10 विकल्पs here. I.O. misses one of them (the first). P misses two of them (the fifth and the sixth). Both P and M, add one more विकल्प given within brackets [.......] above. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |