________________
७६
न्यायसिद्धान्तदीपे
एवमङ्गीकारे प्रतिज्ञान्तरापातात् हितोपायताविधिप्रवेशाच्च ।
नापि पञ्चमः । इष्टत्वं हि इच्छाविषयत्वं तदिच्छाज्ञानस्याप्रवर्त्तकत्वात् । किं च इच्छा किं विषये विशेषणम् वा उपलक्षणं वा । नाद्यः । इच्छायामपि प्रवृत्तिप्रसङ्गात् । न द्वितीयः । विकल्पासहत्वात् । तथाहि उपलक्ष्यं सुखादिकं वा चिकीर्षाजनक ज्ञानविषयत्वं वा अन्यद् वा । नाद्यः । स्वगदिज्ञानेऽपि यागादिनियत विषयप्रवृत्त्यनुपपत्तेः फलस्य चामसिद्धस्य प्रवृ यगोचरतया व्युत्पाद्यत्वात् । अननुगमाच्च । न द्वितीयः । चिकीर्षाजनकज्ञानविषयतावच्छेदकप्रकारस्यै निरूप्यमाणत्वात् । नापि तृतीयः । तदनिर्वचनात् । इष्टत्वज्ञाने प्रवृत्तौ सागरमणावपि प्रवृत्तिप्रसङ्गात् । साध्यत्वेन विशेषणीयमिति चेन्न । साध्यताज्ञाने साधनविषयतानियमात् हितसाधनताविधिप्रवेशात् ।
किञ्च किमिष्टत्वम् । इच्छामात्रविषयत्वं वा । तद्विशेषचिकीर्षाविषयत्वं वा । साऽपीच्छा फलस्य धात्वर्थस्य वा, सापि किं वक्तुर्वा प्रतिपाद्यस्य वा यस्य कस्यापि वा । नाद्यः । वक्तुः फलेच्छाया ज्ञानस्य प्रतिपाद्यप्रवृत्तौ आज्ञाध्येषणातिरिक्ताया अजनकत्वात् । न द्वितीयः । प्रतिपाद्यगतफ ले च्छायाः सत्याः प्रत्यक्षत्वेन तद्बोधकशब्दस्य निष्प्रयोजकत्वात् । असत्याश्च प्रतिपाद्येच्छायाः स्वज्ञानेन प्रवृत्तावजनकत्वात् । नापि धात्वर्थगोचरत्वं द्वितीयः पक्षः । धात्वर्थस्य साधनत्वापरिचये विद्यमाने प्रयोज्येच्छा विषयत्वज्ञानेऽप्यप्रवृत्तेः प्रतिपादकेच्छाया धात्वर्थगोचरायाः प्रतिपाद्यं प्रत्यप्रवर्त्तकर्त्वमित्यस्योक्तप्रायत्वात् । न तृतीयः । अतिप्रसङ्गात् । द्वितीयोऽपि न तद्विशेषचिकीर्षेति पक्षः, उक्तोत्तरत्वात् ।
अथास्तु सङ्कल्पः षष्ठः पक्षेः । तथाहि स्वप्रवृत्तौ यद्धेतुत्वेनावगतं तदेव परप्रवृत्तावपि अनुमिनुयादिति स्वप्रवृत्तौ च कार्यमिष्टोपायः, अतः कुर्या मिति सङ्कल्पस्य हेतुत्वमैंवधारितम् । सङ्कल्पं विना हितोपायतानुसन्धानेऽपिं '
१. P adds च here । २. Mg reads उपलक्ष्यतावच्छेदकं सुखत्वादिकं वा । ३. P reads • निवृत्त्युपपत्तेः । ४. P reads • जनकज्ञाने विषयतावच्छेदकप्रकारस्य । ५. Mg adds किंच here । ६. P+Mg drop न । ७. P reads • ( अ ) तिरिक्तायां जनकत्वात्. But शेषानन्त reads ( अ )तिरिक्तस्य । ८. P reads प्रतिपाद्यं प्रति प्रवर्त्तकस्वम् १०. P reads अवधारयति । इत्याद्युक्तप्रायत्वात् । ९. Preads तथाप्यस्तु षष्ठः पक्षः । ११. Preads हितोपायतानुधावने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org