________________
विधिवादः। कृत्यैव तेषामर्थस्य व्याकारात् । गृहकन्दरादौ कृताकृतबुद्धिविषयनैयत्याच्च । न च कथं चेतनाचेतनसाधारणः कर्तृव्यवहारो रथो गच्छतीत्यादौ समर्थयितव्य' इति वाच्यम् । काकेभ्यो दधि रक्ष्यतामित्यत्र दध्युपघातकतात्पर्यककाकपदवदत्रापि लडादिपदस्य कृतिशतत्वेऽप्यनुकूलव्यापारतात्पर्यकत्वात् ।
न चानुकूलत्वं लडादिवाच्यम् । अनुकूलत्वेनाक्षेपात् कृतेरिति वाच्यम् । अनुकूलत्वं व्यापारान्तरस्यापि सम्भवतीति तदनाक्षेपकत्वात् । न च लडादीनां फलवाचकता धातोस्तदनुकूलव्यापारवाचकताऽस्त्विति वाच्यं, विकल्पासहत्वात् । तथाहि- लडादीनां फलसामान्याभिधायित्वं वा फलविशेषाभिधायित्वं वा । नाद्यः । फलसामान्यज्ञानस्याप्रवर्तकत्वात् पचतीत्युक्ते फलविशेषान्वयबोधानुपपत्तेः । न द्वितीयः । यागादिफलविशेषाभिधायित्वे पाकादिफलविशेषालाभात् । धातोस्तु फलमात्रानुकूलव्यापाराभिधायित्वं वा फलविशेषानुकूलव्यापाराभिधायित्वं वा । नोभौ । अवश्योपजीव्यत्वेन विशेषणांश एव फले शक्तिकल्पनस्योचितत्वात् । यथा काष्ठेन पचति तथा पाकेन पचतीत्यादिप्रयोगप्रसङ्गाच्च ।
___ अस्तु तर्हि नियोज्यप्रयोजनफलिको भावनेति पक्षः । तथाहि-नियोज्यप्रयोजनं निसर्गसुन्दरतया स्वर्ग एव, 'स्वर्गकामो यजेत'इत्यादिवाक्यादवगम्यते । लिङभिहितभावनायां फलापेक्षणात् । समभिव्याहारविशेषात् स्वर्गस्यैव भावनान्वयः । न चान्तरणतया यज्यर्थेनैव लिडर्थस्य साध्यसाधनभावेनैवान्वये याग एव भाव्यतया प्रतीयते बहिरङ्गतया तु न स्वर्ग इति वाच्यम् । ग्रामं गच्छतीत्यादौ भाव्यमाने गमने ग्राममंयोगस्येव भाव्यमाने यागे स्वर्गस्य फलत्वेनाविरोधात् । तथा च । स्वर्गफला यागनिका भावनेति वाक्यार्थनिष्पत्तौ भवति तज्ज्ञानाद्यागे"स्वर्गकामस्य प्रवृत्तिरिति मतम् ।
एतदपि न मन्यामहे । भावनाज्ञानस्य भावनायामजनकत्वात् इत्युक्तप्रायत्वात् स्वर्गफलो याग इति "प्रवृत्त्युपपत्तेरधिकस्यानिवेशनाच्च ।
१P reads समर्थनाय । २. P reads only दध्युपधातकतात्पर्यकत्वात् । ३. I. 0.+M, add लाभः here| ४. P adds तु here । ५. P reads फलसामान्यस्य । ६. P reads बोधानापत्तेः। ७. P reads फलकल्पनस्य । ८. P reads लिविहितभावमायाः । ९. P reads समभिव्याहारदर्शनात् । १०. P reads 'स्वर्गफलकत्वेन । ११P drops यागे । १२. P reads इत्युक्ताभिप्रायत्वात् । १३. M adds ज्ञानात् here ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org