SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३६ ] लोकालोक स्वरूपज्ञं प्रज्ञप्तं धर्म मंगल । अर्चेवादित्र निर्घोष पूरिताशं वनादिभिः ||९|| ॐ ह्रीं केवलिप्रज्ञप्तधर्म मंगलायार्घ्यम् । लोकोत्तमोऽर्हन् जगतां भवबाधाविनाशकः । अर्घ्यतेऽर्येण स मया कुकर्मगणहानये ॥१०॥ ॐ ह्रीं श्री अहल्लोकोत्तमायार्घ्यम् । विश्वाग्रशिखर स्थायी, सिद्धो लोकोत्तमो मया । मह्यते महासामन्द- चिदानन्द सुमेदुरः ॥ ११ ॥ ॐ ह्रीं श्री सिद्धलोकोत्तमायार्घ्यम् । रागद्वेष-परित्यागी, साम्य भावाव- बोधकः । साधुलोकात्तमोऽर्येण, पूज्यते सलिलादिभिः ||१२|| ॐ ह्रीं श्री साधुलोकोत्तमायार्घ्यम् । उत्तमक्षमया भास्वान्, सद्धर्मो विष्टपोत्तमः । अनन्तसुख-संस्थानं, यज्यतेऽम्भः सुमादिभिः ||१३|| ॐ ह्रीं श्री केवलिप्रज्ञप्तधर्म लोकोत्तमायार्घ्यम् । सदाह शरणमन्ये, नान्यथा शरणं मम I इति भावविशुद्धयर्थम्, अर्हयामि जलादिभिः ||१४|| ॐ ह्रीं श्री अर्हच्छरणायार्घ्यम् । ब्रजामि सिद्धशरणं, परावर्तन पञ्चकम् । भित्त्वा स्वसुखसन्दोह सम्पन्नमिति पूजये ॥ १५ ॥ ॐ ह्रीं श्री सिद्धशरणायार्घ्यम् । Jain Education International 2010_05 आश्रये साधुशरणं, सिद्धान्त प्रतिपादनैः । न्यक्कृताज्ञान तिमिरमिति शुद्धया यजामि तम् ||१६|| ॐ ह्रीं श्री साधुशरणायार्घ्यम् । धर्म एव सदा बन्धुः, स एव शरणं मम । इह वान्यत्र संसारे इति तं पूज्येधुना ||१७|| ॐ ह्रीं श्री केवलिप्रज्ञप्तधर्म शरणायार्घ्यम् । संसारदुःखहनने निपुणं जनानां । नाद्यन्तचक्रमिति सप्तदशप्रमाणम् ॥ सम्पूजये विविध भक्तिभरावनम्रः । शान्तिप्रदं भुवनमुख्यपदार्थसार्थैः ||१८|| ॐ ह्रीं श्री अर्हदादिसप्तदशमन्त्रेभ्यः समुदायार्घ्यम् । For Private & Personal Use Only [ प्रतिष्ठा-प्रदीप ] www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy