SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अच्छाम्भः 1 दीपैर्धूप शुचि चन्दनाक्षतसुमै-नैर्वेद्यकैश्चारुभिः फलोत्तमैः समुदितैरेभिः सुपात्रस्थितैः 11 अर्हत्सिद्ध सुसूरिपाठक मुनीन्, लोकोत्तमान् मङ्गलान् । प्रत्यूहौघनिवृत्तये शुभकृतः, सेवे शरण्यानहम् ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः अर्घ्यम् । प्रत्येक पूजनम् || कल्याण पञ्चक- कृतोदयमाप्त-मीश- मर्हन्त मच्युतचतुष्टय- भासुराङ्गम् । स्याद्वादवागमृत-सिन्धुशशांक-कोटि- मर्चे जलादिभि - रनन्त गुणालयं तम् ||१|| ॐ ह्रीं श्री अनन्त चतुष्टयादिलक्ष्मी बिभ्रतॆऽर्हत्परमेष्ठिने अर्घ्यम् । कर्माष्टकेघ्म-चय-मुत्पथमाशु हुत्वा, सद्ध्यानवह्निविसरे स्वयमात्मवन्तम् । निश्रेयसामृत - ‍ - सरस्यथ सन्निनाय, तं सिद्ध मुच्चपददं परिपूजयामि ॥२॥ ॐ ह्रीं अष्टकर्मकाष्ठगणभस्मीकृते श्री सिद्ध परमेष्ठिने अर्घ्यम् । स्वाचार-पञ्चक-मपि स्वय- माचरन्तः, ह्याचारयन्ति भविका न्निजशुद्धि-भाजः । तानर्चयामि विविधैः सलिलादिभिश्च, प्रत्यूहनाशनविधौ निपुणान् पवित्रैः ||३|| ॐ ह्रीं पञ्चाचार परायणाय आचार्य परमेष्ठिने अर्घ्यम् । अङ्गाङ्ग बाह्यपरिपाठन- लालसाना-मष्टाङ्ग ज्ञानपरिशीलन - भावितानाम् । पादारविन्दयुगलं खलु पाठकानां, शुद्धैर्जलादिवसुभिः परिपूजयामि ||४|| ॐ ह्रीं श्री द्वादशाङ्ग पठन पाठनोद्यताय उपाध्याय परमेष्ठिने अर्घ्यम् । आराधना सुख विलास - महेश्वराणां सद्धर्म्मलक्षण-मयात्मविकस्वराणाम् । स्तोतुं गुणान् गिरिवनादि निवास भाजाम्, एषोऽर्घतश्चरण पीठ भुवं यजामि ||५|| ॐ ह्रीं त्रयोदश प्रकार चारित्राराधक साधु परमेष्ठिने अर्घ्यम् । अर्हन्मंगलमर्चामिजगन्मंगल दायकं I प्रारब्ध कर्म विघ्नौघ प्रलय प्रदमन्मुखैः ||६|| ॐ ह्रीं अर्हन्मंगलायार्घ्यम् | चिदानन्दलसद्वीचि मालिनं गुण शालिनं । सिद्ध मंगल मर्चेऽहं सलिलादिभिरुज्वलैः ||७|| ॐ ह्रीं सिद्धमंगलायार्घ्यम् । बुद्धि क्रियारसतपो विक्रियौषधि मुख्यकाः । ऋद्धयो यं न मोहन्ति, साधुमंगल मर्चये ॥८॥ ॐ ह्रीं साधु मंगलायार्घ्यम् । [ प्रतिष्ठा-प्रदीप ] Jain Education International 2010_05 For Private & Personal Use Only [ ३५ www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy