SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ये घाति-जाति-प्रतिघाति जार्त, शक्राद्यलडघ्यं जगदेकसारम् प्रपेदिरेऽनन्त चतुष्टयं तान्, यजे जिनेन्द्रानिह कर्णिकायाम् ॥१॥ ॐ ह्रीं श्री अर्हत्परमेष्ठिने अर्घ्यम्। निःशेषबन्धक्षयलब्ध शुद्ध-बुद्धस्वभावान्निजसौख्यवृद्धान् । आराधये पूर्व दले सुसिद्धान्, स्वात्मोपलब्ध्यै स्फुटमष्टधेष्ट्या ।।२।। ॐ ह्रीं श्री सिद्ध परमेष्ठिने अय॑म् । ये पञ्चाधाचारमरं मुमुक्षू-नाचारयन्ति स्वयमा-चरन्तः । अभ्यर्चये दक्षिणदिग्दले ता-नाचार्यवर्यान्स्वपरार्थ चर्यान् ॥३॥ ॐ ह्रीं श्री आचार्य परमेष्ठिने अय॑म् । येषामुपान्त्यं समुपेत्य शास्त्र-ण्यधीयते मुक्तिकृते विनेयाः । अपश्चिमान्पश्चिमदिग्दलेस्मिन्-नमूनुपाध्यायगुरुन्महामि ॥४॥ ॐ ह्रीं श्री उपाध्याय परमेष्ठिने अय॑म् ।। ध्यानैकतानानबहिः प्रचारान्, सर्वसहान् निर्वृति साधनार्थ । सम्पूजयाम्युत्तरदिग्दलेतान्, साधूनशेषान् गुणशीलसिन्धून् ॥५॥ ॐ ह्रीं श्री साधु परमेष्ठिने अर्घ्यम् । आराधकानभ्युदये समस्तान्, निःश्रेयसे वा धरति ध्रुवं यः । तं धर्ममाग्नेय विदिग्दलान्ते, सम्पूजये केवलिनोपदिष्टम् ॥६॥ ॐ ह्रीं श्री जिन धर्माय अय॑म् । सुनिश्चिता सम्भवबाधकत्वात्, प्रमाण भूतं सनयप्रमाणम् । यजे हि नानाष्टकभेदवेदं, मत्यादिकं नैऋतकोण पत्रे ॥७॥ ॐ ह्रीं श्री जिनागमाय अय॑म् । व्यपेत भूषायुध-वेशदोषान्, उपेत-निःसङ्गत-यार्द्रमूर्तीन् । जिनेन्द्र बिम्बान्भुवनत्रयस्थान, समर्चये वायुविदिग्वदलेऽस्मिन् ॥८॥ ॐ ह्रीं श्री जिनबिम्बेभ्यः अर्घ्यन् । शालत्रयान्सद्मनि केतुमान-स्तम्भालयान्मगल-मङ्गलाढयान्। गृहान् जिनानामकृतान्कृतांश्च, भूतेशकोणस्थदले यजामि ॥९॥ ॐ ह्रीं श्री जिन चैत्यालयेभ्यः अर्घ्यम् । मध्ये . कर्णिकमर्हदार्यमनघं - बाह्येऽष्टपत्रोदरे । सिद्धान् सूरिवरांश्च पाठकगुरून्, साधूंश्च दिक्पत्रगान् ।। सद्धर्मागम-चैत्य-चैत्य-निलायान्, कोणस्थदिक्पत्रगान् । भक्त्या सर्वसुरासुरेन्द्र महितान्, तानष्टधेष्ट्या भजे ॥१०॥ ॐ हीं श्री अर्हदादिनवदेवेभ्यः पूर्णाऽय॑म् । [प्रतिष्ठा-प्रदीप [३३ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy