SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मंगलाष्टक अर्हन्तो भगवन्त इन्द्रमहिताः, सिद्धाश्च सिद्धश्वराः, आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः । श्री सिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः । पञ्चैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु ते मंगलम् ।। अथवा-श्रीमन्नम्र- सुरासुरेन्द्र- मुकुट- प्रद्योतरत्न-प्रभा . भास्वत्पादनखेन्दवः प्रवचनाम्भोधाववस्थायिनः । ये सर्वे जिन सिद्ध सूर्यनुगतास्ते पाठकाः साधवः, स्तुत्या योगिजनेश्च पञ्चगुरवः, कुर्वन्तु ते मंगलम् ॥१॥ सम्यग्दर्शन बोधवृत्तममलं रत्नत्रयं पावनं । मुक्तिश्री नगराधिनाथ जिनपत्युक्तोऽपवर्गप्रदः ॥ धर्मः सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्यालयं । प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ॥२॥ नाभेयादिजिनाः प्रशस्तवदनाः, ख्याताश्चतुर्विंशतिः । श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश || ये विष्णु प्रतिविष्णु लांगलधराः, सप्तोत्तरा विंशतिः । त्रैकाल्ये प्रथितास्त्रिषष्ठिपुरुषाः, कुर्वन्तु ते मंगलम् ||३|| ये सौषधिऋद्धयः श्रुततपो वृद्धिंगताः पञ्च ये । ये चाष्टांग महानिमित्तकुशलाश्चाष्टौ विधाश्चारिणः ॥ पञ्चज्ञानधरास्त्रयोऽपि बलिनो, ये बुद्धिऋद्धीश्वराः । सर्वैते सकलार्चिता मुनिवराः, कुर्वन्तु ते मंगलम् ||४|| कैलाशो वृषभस्य निर्वृतिमही, वीरस्य पावापुरी । चम्पा वा वसुपूज्यसज्जिनपतेः सम्मेदशैलोऽर्हताम् ॥ शेषाणामपि चोर्जयन्तशिखरी, नेमीश्वरस्याहतो । निर्वाणावनयः प्रसिद्ध विभवाः, कुर्वन्तु ते मंगलम् ॥५॥ ज्योतिर्व्यन्तर भावनामरगृहे, मेरौ कुलाद्रौ स्थिताः । जम्बूशाल्मलिचैत्यशाखिषु तथा, वक्षाररौप्याद्रिषु ।। इष्वाकार गिरौ च कुण्डलनगे, द्वीपे च नन्दीश्वरे । शैले ये मनुजोत्तरे जिनगृहाः, कुर्वन्तु ते मंगलम् ॥६॥ सर्पो हारलताभवत्यसिलता, सत्पुष्पदामायते । सम्पद्येत रसायनं विषमपि, प्रीतिं विधत्ते रिपुः ।। २८] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy