________________
स्वस्ति पाठ - श्री पंचकल्याणमहाहणार्हाः वागात्मभाग्यातिशयैरुपेताः । तीर्थंकराः केवलिनश्च शेषाः स्वस्तिक्रियां नो भृशमावहन्तु ||१|| ये शुद्धमूलोत्तरसद्गुणानामाधारभावादनगारसंज्ञाः । निग्रंथवर्या निरवद्यचर्याः स्वस्तिक्रियां नो भृशमावहन्तु ॥२॥ ये चाणिमाद्यष्टसुविक्रियाढ्याः तथाक्षयावासमहानसाश्च । राजर्षयस्ते सुरराज्यपूज्याः स्वस्तिक्रियां नो भृशमावहन्तु ॥३॥ ये कोष्ठबुद्ध्यादिचतुर्विधीः अवापुरामर्शमुखौषधर्टीः । ब्रह्मर्षयो ब्रह्मणि तत्परास्ते स्वस्तिक्रियां नो भृशमावहन्तु ||४|| जलादिनानाविधचारणा ये ये चारणाय्यांबरचारणाश्च । देवर्षयस्ते नतदेववृन्दाः स्वस्तिक्रियां नो भृशमावहन्तु ॥५॥ सालोकलोकोज्ज्वलनैकतानं प्राप्ताः परं ज्योतिरनंतबोधम् । सर्वर्षिवंद्याः परमर्षयस्ते स्वस्तिक्रियां नो भृशमावहन्तु ॥६॥ श्रेणीद्वयारोहणसावधानाः कर्मोपशांति क्षपणप्रवीणाः । एते समस्ता यतयो महान्तः स्वस्तिक्रियां नो भृशमावहन्तु ॥७॥ समग्र मध्यक्षमिताक्षदेश-प्रत्यक्षमत्यक्ष सुखानुरक्ताः । मुनीश्वरास्ते जगदेकमान्याः स्वस्तिक्रियां नो भृशमावहन्तु ||८|| उग्रं च दीप्तं च तपोऽभितप्तं महच्च घोरं च तरां चरन्तः । तपोधना निर्वृतिसाधनोत्काः स्वस्तिक्रियां नो भृशमावहन्तु ॥९॥ मनोवचः कायबलप्रकृष्टाः स्पष्टीकृताष्टांगमहानिमित्ताः । क्षीरामृतसाविमुखा मुनींद्राः स्वस्तिक्रियां नो भृशमावहन्तु ॥१०॥ प्रत्येकबुद्धप्रमुखा मुनींद्राः शेषाश्च ये ये विविधर्द्धियुक्ताः ।। सर्वेऽपि ते सार्वजनीनयुक्ताः स्वस्तिक्रियां नो भृशमावहन्तु ॥११॥
शापानुग्रह शक्तताधतिशयैरुच्चावचैरर्चिता : । ये सर्वे परमर्षयो भगवतां तेषां गुणस्तोत्रतः ।। एतत्स्वस्त्ययनादपैति सकलः संक्लेशभावः शुभः । भावः स्यात्सुकृतं च तच्छुभविधेरादाविदं श्रेयसे ॥१२॥
नोट - शांतिपाठ विसर्जन करें।
यंत्र प्रतिष्ठा विधि पाटे पर सिद्ध यंत्र, विनायक यंत्र आदि को स्थापित कर संबंधित सिद्ध भगवान् व पंच परमेष्ठी आदि की पूजा करें। सर्वौषधि से अभिषेक करें। पुनः केशर लगाकर लौंग द्वारा १०८ बार यंत्र के मन्त्र का जप करें । फिर जल से शुद्ध करें | यंत्र चाँदी व ताम्र का शुद्ध लिखावें । [प्रतिष्ठा-प्रदीप]
[२१७
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org