________________
अक्षतैरक्षतैः सूक्ष्मैवलरुक्षसन्निभैः ।
सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥३॥ ॐ ह्रीं गणधरचरणेभ्यो अक्षतं ।
पुष्पैः . प्रसर दामोदाहूतपुष्पंधयावृतैः ।।
सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥४॥ . ॐ ह्रीं गणधरचरणेभ्यो पुष्पं ।
हव्यैर्नव्य घृतापूयपायसैयंजनान्वितैः ।
सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥५॥ ॐ ह्रीं गणधरचरणेभ्यो चरूं।
कर्पूरप्रभवैर्दीपैर्दीप्त्या दीपितदिङ् मुखैः ।।
सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥६।। ॐ हीं गणधरचरणेभ्यो दीपं ।
दशांग धूपसद्धूमैर्दशाशापूर्ण सौरभैः ।।
सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥७|| ॐ ह्रीं गणधरचरणेभ्यो धूपं ।
चोचमोचाम्र जंबीरफलंपूगादि सत्फलैः ।
सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥८॥ ॐ ह्रीं गणधरचरणेभ्यो फलं।
गुणमणिगणसिंधून्भव्यलोकैकबंधून् प्रकटितनिजमार्गान्धवस्तमिथ्यात्वमार्गान् ।
परिचितनिजतत्वान्पालिताशेषसत्वान् । शमरसजितचंद्रानय॑यामो मुनींद्रान् ॥ ॐ हीं गणधरचरणेभ्यो अर्घ्यम्।
स्तुति ये सर्वतीर्थप्रभवा गणेंद्राः, सप्तर्द्धयो ज्ञानचतुष्ट्याढ्याः । तेषां पदाब्जानि जगद्धितानां, वचोमनोमूर्द्धसु धारयामः ॥१|| तपोबलाक्षीणरसौषधर्झन् विज्ञानऋद्धीनपि विक्रियर्थीन् । सप्तर्द्धियुक्तानखिलानृषींन्द्रान्स्मरामि वंदे प्रणमामि नित्यम् ॥२।। सर्वेषु तीर्थेषु तदंतरेषु सप्तर्षयो ये महिता बभूवुः । भवांबुधेः पारमिताः कृतार्थाः, भवंतु नस्ते मुनयः प्रसिद्धाः ॥३।। ये केवलींद्राः श्रुतकेवलींद्राः ये शिक्षकास्तुर्यतृतीयबोधाः । सविक्रिया ये वरवादिनश्च सप्तर्षिसंज्ञानिह तान्प्रवंदे ॥४॥ प्रमत्तमुख्येषु पदेषु सार्धद्वीपद्वये ये युगपद्भवन्ति । उत्कर्षतस्तान्नव कोटिसंख्यान्वंदे त्रिसंख्यारहितान्मुनींद्रान् ॥५।।
२१६]
[प्रतिष्ठा-प्रदीप]
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org