SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ९. समाधिभक्तिः स्वात्माभिमुखसंवित्तिलक्षणं श्रुतचक्षुषा । पश्यन्पश्यामि देव त्वां केवलज्ञानचक्षुषा ॥१।। शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदार्यैः । सवृत्तानां गुणगणकथा दोषवादे च मौनम् ॥ सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे । संपद्यतां मम भवभवे यावदेतेऽपवर्गः ॥२।। जैन मार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुतौ मतिः । निष्कलंक विमलोक्तिभावनाः संभवन्तु मम जन्मजन्मनि ||३|| गुरुमूले यतिनिचिते चैत्यसिद्धांतवार्धिसद्धोषे ।। मम भवतु जन्मजन्मनि सन्यसनसमन्वितं मरणम् ॥४॥ जन्मजन्मकृतं पापं जन्मकोटिसमर्जितम् । जन्ममृत्युजरामूलं हन्यते जिनवन्दनात् ॥५|| आबाल्याज्जिनदेवदेव भवतः श्रीपादयोः सेवया । सेवासक्तविनेयकल्पलतया कालोद्ययावद्गतः ।। त्वां तस्याः फलमर्थये तदधुना प्राणप्रयाणक्षणे । त्वन्नामप्रतिबद्धवर्णपठने कण्ठोऽस्त्व कुण्ठो मम ॥६।। तव पादौ मम हृदये मम हृदयं तव पदद्वये लीनम् । तिष्ठतु जिनेन्द्र तावद्यावन्निर्वाणसंप्राप्तिः ॥७|| एकापि समर्थेयं जिनभक्तिर्दुर्गतिं निवारयितुम् । पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः ।।८।। पंचअरिञ्जयणामे पंचय गदि सायरे जिणे वंदे । पंच जसोयरणामे पंचम्मिय सीमन्दरे वंदे ॥९।। रयणत्तयं च वंदे चव्वीसजिणे च सव्वदा वंदे । पंचगुरुणं वंदे चारणचरणं सदा वंदे ॥१०॥ अर्हमित्यक्षरंब्रह्म वाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहं ।। कर्माष्टकविर्निमुक्तं मोक्षलक्ष्मी निकेतनम् । सम्यक्त्वादि, गुणोपेतं सिद्धचक्रं नमाम्यहम् ॥११॥ १४८] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy