SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ शान्तिं शान्तिजिनेन्द्र शांतमनसस्त्वपादपद्माश्रयात् । संप्राप्ताः पृथिवीतलेषु बहवः शान्त्यर्थिनः प्राणिनः ।। कारुण्यान्मम भाक्तिकस्य च विभो दृष्टिं प्रसन्नां कुरु। त्वत्पादद्वयदैवतस्य गदतः शांत्यष्टकं भक्तितः ॥८॥ शांतिजिनं शशिनिर्मलवक्त्रं शीलगुणव्रतसंयमपात्रं । अष्टशतार्चितलक्षणगात्रं नौमि जिनोत्तम मंबुजनेत्रम् ।। पंचमभीप्सितचक्रधराणां पूजितमिन्द्रनरेन्द्रगणैश्च ॥ शांतिकरं गणशांतिमभीप्सुः षोडशतीर्थकरं प्रणमामि ।।९।। दिव्यतरुः सुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ । आतपवारणचामरयुग्मे यस्य विभाति च मण्डलतेजः ।। तं जगदर्चितशांतिजिनेन्द्रं शांतिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शांतिं मह्यमरं पठते परमां च ॥१०॥ येऽभ्यर्चिता मुकुटकुण्डलहाररत्नैः । शक्रादिभिः सुरगणैः स्तुतपादपद्माः ॥ ते मे जिनाः प्रवरवंशजगत्प्रदीपाः । तीर्थंकराः सततशांतिकरा भवन्तु ॥११|| संपूजकानां प्रतिपालकानां यतींद्रसामान्यतपोधनानां । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शांति भगवान् जिनेन्द्रः ।। क्षेमं सर्वप्रजानां प्रभवतु बलवान्धर्मिको भूमिपालः । काले काले च सम्यग् बिकिरतु मघवा व्याधयो यांतु नाशम् ।।१२।। दुर्भिक्षं चौरमारिःक्षणमपि जगतां मास्मभूज्जीवलोके । जैनेन्द्रं धर्मचक्रं प्रभवतु सततं सर्वसौख्यप्रदायि ।। तद्रव्यमव्ययमुदेतु शुभः स देशः । सन्तन्यतां प्रतपतां सततं स कालः ॥ भावः स नन्दतु सदा यदनुग्रहेण ।। रत्नत्रयं प्रतपतीह मुमुक्षुवर्गे ॥१३॥ __ इच्छामि भंते शांतिभक्तिकाउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाणसम्पण्णाणं, अठ्ठमहापाडिहेरसहियाणं, चउतीसातिसयविसेससंजुत्ताणं, बत्तीसदेवेंदमणिमउडमत्थयमहियाणं, बलदेववासुदेवचक्कहररिसिमुणिजदिअणगारोवगूढाणं, थुइसयसहस्सणिलयाणं, उसहाइवीरपच्छिममंगलमहापुरिसाणं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, वोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसम्पत्ति होउ मज्झं । । [प्रतिष्ठा-प्रदीप] [१४७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy