________________
८. अथ शांतिभक्तिपाठः न स्नेहाच्छरणं प्रयान्ति भगवन्पादद्वयं ते प्रजाः । हेतुस्तत्र विचित्रदुःखनिचयः संसारघोरार्णवः ।। अत्यन्तस्फुर दुग्र रश्मिनिकरव्याकीर्णभूमण्डलो । ग्रैष्मः कारयतीन्दुपादसलिलच्छायानुरागं रविः ॥१॥ कुद्धाशीविष दष्टदुर्जयविषज्वालावलीविक्रमो ।
विद्याभैषजमन्त्रतोयहवनैर्याति प्रशांतिं यथा ।। तद्वत्ते चरणारुणांबुजयुगस्तोत्रोन्मुखानां नृणाम् । विघ्नाः कायविनायकाश्च सहसा शाम्यंत्यहो विस्मयः ॥२॥
संतप्तोत्तमकांचनक्षितिधरश्रीस्पर्द्धिगौरद्युते । पुंसां त्वच्चरणप्रणामकरणात्पीडाः प्रयान्ति क्षयं ।।। उद्यद्भास्करविस्फुरत्करशतव्याघातनिष्कासिता । नानादेहिविलोचनद्युतिहरा शीघ्रं यथा शर्वरी ॥३||
त्रैलोक्येश्वरभंगलब्धविजयादत्यंतरौद्रात्मकान् । नानाजन्मशतांतरेषु पुरतो जीवस्य संसारिणः ।। को वा प्रख्खलतीह केन विधिना कालोग्रदावानलान्न स्याच्चेत्तव पादपद्मयुगलस्तुत्यापगावारणम् ।।४।।
लोकालोकनिरंतरप्रविततज्ञानैकमूर्ते विभो । नानारत्नपिनद्धदण्डरुचिरश्वेतातपत्रत्रय ॥ त्वत्पादद्वयपूतगीतरवतः शीघ्रं द्रवन्त्यामयाः । दध्मिातमृगेन्द्रभीमनिनदाद्वन्या यथा कुंजराः ॥५॥ दिव्यस्त्रीनयनाभिरामविपुल श्री मेरु चूडामणे । भास्वद्वालदिवाकरद्युतिहर प्राणीष्टभामंडलम् ।। अव्याबाधमचिंत्यसारमतुलं त्यक्तोपमं शाश्वतम् । सौख्यं त्वच्चरणारविंदयुगलस्तुत्यैव संप्राप्यते ॥६।। यावन्नोदयते प्रभापरिकरः श्रीभास्करो भासयं
स्तावद्धारयतीह पंकजवनं निद्रातिभारश्रमम् ॥ यावत्वच्चरणद्वयस्य भगवन्नस्यात्प्रसादोदयस्तावज्जीवनिकाय एष वहति प्रायेण पापं महत् ।।७।।
१४६]
[प्रतिष्ठा-प्रदीप
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org