SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सुवर्णनिर्मितं कुम्भं सुवर्णाख्यं महासुखम् । स्फुरद्रत्नचयं चारूं संस्थाप्याहं समर्चये ॥७३।। ॐ हीं सुवर्णकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । कदलीपत्रसंकाशं नीलाश्मकमयं घटम् । स्थापयामीन्द्रनीलाख्यं संभृतंतीर्थवारिणा ।।७४।। ॐ ह्रीं इन्द्रनीलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । अशोक कुसुमामोदवासिताम्भः प्रपूरितम् । अशोकाख्यंमहाकुम्भं निधापये जिनौकसाम् ॥७५।। ॐ हीं अशोककलशेन मन्दिरशुद्धिं करोमीति स्वाहा । पुष्पदन्त समानाभं पुष्पदन्त समाह्वयम् । कलशं सलिलैः पूर्ण संस्थापयेऽर्हन्मन्दिरे ॥७६।। ॐ हीं पुष्पदन्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । कुमुदाख्यं घटं नव्यं कुमुदस्रग्विराजितम् । कुमुदैरर्चये स्नाने संस्थाप्य श्रीजिनौकसः ॥७७।। ॐ हीं कुमुदकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । येषु दृष्टेषुभव्यानां सम्यक्त्वं प्रकटीभवेत् । दर्शनाख्यं महाकुम्भं संभावये जलादिभिः ||७८।। ॐ ह्रीं दर्शनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । यस्य दर्शनमात्रेण धर्मोऽधर्मः प्रबुध्यते । कुम्भं ज्ञानाख्यमुत्तुंगं निवेशये जलैर्भूतम् ।। ॐ ह्रीं ज्ञानकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । दर्शनाद्यस्य भव्यानां वृत्ते मतिः प्रजायते । चारित्राख्यं वनैः पूर्णं कुम्भं संस्थापये मुदा ।।८०|| ॐ ह्रीं चारित्रकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । सर्वार्थसिद्धिकर्तारं सर्वार्थसिद्धिनामकम् । कुम्भं समर्चये जैनवेश्मनः स्नानहेतवे ॥८१|| ॐ ह्रीं सर्वार्थसिद्धिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । १२०.] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy