________________
चन्द्रकान्तमहारत्नविनिर्मितमहाघटम् ।
सूर्याख्यं कुम्भमुत्कृष्टैः प्रयजे तन्महार्घकैः ॥४०॥ ॐ ह्रीं सूर्यकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
लोकालोकप्रविख्यातं लोकालोकविधानकम् ।
कुम्भं संस्थापयाम्यत्र संपूज्य विविधार्चनैः ॥४१॥ ॐ हीं लोकालोककलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
त्रिकूटनामकं कुम्भं त्रिकूटाद्रिसमानकम् ।
समय॑ विविधार्पण स्थापये तन्महोत्सवे ॥४२।। ॐ ह्रीं त्रिकूटकलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
उदयाख्यं महाकुम्भमुदयाचलसन्निभम् ।
स्थापयामि जिनागारेऽभिषवाय महोन्नतम् ।।४३।। ॐ ह्रीं उदयाचलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
हिमवत्पर्वताभिख्यं हिमाचलसमुन्नतम् ।
कूटं निवेशयाम्यत्र स्नानाय नव्यवेश्मनः ॥४४।। ॐ हीं हिमाचलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
निषधाद्रिसमोत्सेधं निषधाख्यं घटं वरम् ।
संविधायार्हणां दिव्यां स्थापयेऽर्हन्महोत्सवे ॥४५|| ॐ ह्रीं निषधकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
माल्यवत्कुम्भनामानं नानामालाविराजितम् ।
शुद्धस्फटिकसंकाशं कुम्भं तत्र निवेशये ॥४६।। ॐ ह्रीं माल्यवत्कलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
सत्पारिपात्रकोत्सेधं सत्पारिपात्रकाह्वयम् ।
कलशं श्रीजिनागारस्नानाय पूजयेऽनघम् ।।४७|| ॐ ह्रीं सत्पात्रकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
- गन्धमादननामानं गन्धमादप्रपूरितम् ।
सम्पूजये जलाद्य(र्जिनौकः स्नानहेतवे ||४८।। ॐ हीं गन्धमादनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
सुदर्शनसमाह्वानं सुदर्शनगरिष्ठकम् ।
कलशं शुद्धये जैनवेश्मनः स्थापयेऽनघम् ॥४९।। ॐ हीं सुदर्शन कलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
कलशं मन्दराकारं मन्दराख्यं महोन्नतम् ।
विधापयामि जैनेन्द्रभवन स्नान हेतवे ।।५०।। । ॐ ह्रीं मन्दरकलशेन मन्दिरशुद्धिं करोमीति स्वाहा |
[प्रतिष्ठा-प्रदीप]
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org