________________
मन्दाराख्यं महाकुम्भं मन्दारसग्विभूषितम् ।
दिव्यैरर्चामि मन्दारैः प्रत्यग्रजिनमन्दिरे ॥२८॥ ॐ हीं मन्दारकलशेन मन्दिरशुद्धिं करोनीति स्वाहा।।
प्रत्यग्रपारिजातौघसमर्चितजलै तम् ।।
पारिजाताभिधं कुम्भमर्चयामि पयोभरैः ॥२९॥ ॐ ह्रीं पारिजातकलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
संतानपल्लवोत्फुल्लप्रसूननिकरार्चितम्
संतानाख्यं जलैः पूर्ण संस्थाप्यापूजयेऽनिशम् ॥३०॥ ॐ ह्रीं सन्तानकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
हरिचन्दनपुष्पाभं हरिचन्दनसंज्ञकम् ।
हरिचन्दनकर्पूरैः कुम्भं संप्रार्चये मुदा ॥३१॥ ॐ ही हरिचन्दनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
कल्पवृक्षमहापुष्पप्रकरेण प्रसाधितम् ।
कल्पवृक्षाभिधं कुम्भं पूजनाय प्रकल्पये ॥३२॥ ॐ ही कल्पवृक्षकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
जपाख्यं जपदामाभं जपापुष्पाख्यबालकम् ।
यजे जगत्प्रभोर्नव्यचैत्यस्नानाय केवलम् ||३३।। ॐ ह्रीं जपाकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
विशालाख्यं घटं दिव्यं विशालं रत्ननिर्मितम् ।
विशालयामि पुष्पौषैः कुन्दमन्दारसंभवैः ॥३४।। ॐ हीं विशालकलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
कुम्भं श्रीभद्रकुम्भाख्यं भद्रेभकुम्भसुन्दरम् ।
पारिभद्रप्रसूनौधैः शोभयामि मनोहरैः ॥३५।। ॐ ह्रीं भदकुंभकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।।
घटं श्रीपूर्णकुम्भाख्यं पूर्णकुम्भमिवोन्नतम् ।
क्षीरोदनीरसंपूर्णैः सुरत्नैर्वर्णयाम्यहम् ॥३६।। ॐ हीं पूर्णकुम्भकलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
जयन्तं सर्वकुम्भानां जयनाख्यं महाघम् ।
विकसञ्जयपुष्पौघैः संजयामि तदुत्सवे ॥३७॥ ॐ ह्रीं जयन्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।
वैजयन्ताभिधं कुम्भं सत्यं विजयदायकम् ।
नव्यप्रासादचर्यार्थंचर्चयेऽहं वनादिभिः ॥३८॥ ॐ ह्रीं वैजायन्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा ।
[प्रतिष्ठा-प्रदीप]
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org