SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आनन्ददायकं दिव्यं सानन्दाख्यं मनोहरम् । नित्यं तीर्थजलैः पूर्ण स्थापये चैत्यसंमहे ॥१७॥ ॐ हीं आनन्दकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । नन्दाख्यं नन्दतोत्कृष्टं प्रणन्दितगमं जितम् । कुम्भं समर्चये दिव्यं नानामणिविनिर्मितम् ॥१८॥ ॐ ह्रीं नन्दनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । कुम्भं विजयनामानं विजयोर्जितविश्वकम् । पूर्णं तीर्थजलैर्दिव्यमर्चयेऽर्हद्गृहोत्सवे ॥१९|| ॐ ह्रीं विजयकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । नानातीर्थजलाकीर्णं कुम्भं त्वजितनामकम् । मानये विविधार्हाभिः स्मरजिन्मन्दिरोत्सवे ॥२०॥ ॐ ह्रीं अजितकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। अपराजितनामानं घटं काञ्चनसंनिभम् । संप्रतिष्ठापये चैत्यमहे जलसुमाक्षतैः ॥२१॥ ॐ ह्रीं अपराजितकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। महोदरं शतानन्दनामधेयं प्रभास्वरम् । कलशं कमलैः पूर्णं प्रार्चयेऽर्हद्गृहोत्सवे ॥२२॥ ॐ ह्रीं शतानन्दकलशेन मन्दिरशुद्धिं करोमीति स्वाहा | सह स्नानदसत्ख्यातिं पद्मादितीर्थसंभृतम् । पुष्पमालावृतं कुम्भं महाम्यहंद्गृहक्षणे ॥२३|| ॐ हीं स्नानदकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। कुन्दाख्यं कुन्दपुष्पाढ्यं कुन्दसकप्रविराजितम् । प्रार्चये कुन्दपुष्पोथैः कुम्भं भव्यजिनालये ॥२४॥ ॐ हीं कुन्दकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । प्रस्फुटन्मल्लिकापुष्पसमूहामोदवासितैः ।। नीरैः पूर्ण यजे हेममल्लिकाख्यं महाघटम् ॥२५॥ ॐ हीं मल्लिकारख्यकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । अपूर्वचम्पकामोदप्रवासितजलै तम् । चम्पकाख्यं घटं दिव्यं सूत्रितं सम्यगर्चये ॥२६।। ॐ हीं चम्पककलशेन मन्दिरशुद्धिं करोनीति स्वाहा । कदम्बरजसाव्याप्तकदम्बाख्यं महाघटम्। उपाक्षिप्तविधानेनार्चये जैनगृहाप्तये ॥२७।। ॐ हीं कदम्बकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । [प्रतिष्ठा-प्रदीप] [११५ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy