SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ मकरांकितो गणभृतश्च विदर्भमुख्याः श्रीशीतलस्य गणया अनगारगण्याः । श्रेयो जिनस्य निकटे ध्वनि कुंथुपूर्वा धर्मादयो गणधरा वसुपूज्यसूनोः ॥४२।। मेर्वादयश्च विमलेशितुरुद्धबुद्धया जय्यार्यनामभरणाश्चतुर्दशस्य । धर्मस्य भांति शमिनः सदरिष्टमूलाश्चक्रायुधप्रभृतयः खलु शांतिभर्तुः ॥४३॥ कुंथुप्रभोर्यमभृतः कथिताः स्वयंभूवर्याः पुनन्त्वरविभोः स्मृतकुम्भमान्याः । मल्लेर्विशाखमुनयो मुनिसुव्रतस्य मल्लिप्रवेकगणपा नमिभर्तुरिष्टाः ॥४४।। सप्तर्द्धिपूजितपदाः सुप्रभासमुख्या नेमीश्वरस्य वरदत्तमुखा गणेशाः । पार्श्वप्रभो स्वयमितः सुभवोन्तनाम्ना वीरस्य गौतममुनींद्रमुखाः पुनन्तु ।।४५|| एभ्योऽर्घ्यपाद्यमिह यज्ञधरावनार्थं दत्तंमया विलसतां शुचिवेदिकायां । पुष्पांजलिप्रकरतुंदिलमाज्यपात्र मुत्तारयामि मुनिमान्यचरित्रभक्त्या ॥४६|| ॐ ह्रीं श्रीचतुर्विंशतितीर्थंकरगणधरेभ्यस्लिापञ्चाशत्सहित चतुर्दशशतसंस्टयेभ्योऽय॑म् स्वाहा । इन्द्रभूतिरग्निभूतिर्वायुभूतिः सुधर्मकः । मौर्यमौढ्यौ पुत्रमित्रावकम्पनसुनामधृक् ||४७|| ॐ ह्रीं गौतमादिएकादशमुनिभ्योऽय॑म् । अन्धवेलः प्रभासश्च रुद्रसंख्यान् मुनीन् यजे । गौतमं च सुधर्मं च जम्बुस्वामिनमूर्ध्वगम् ॥४८|| ॐ हीं अंत्यकेवलित्रयायाऽय॑म् । श्रुतकेवलिनोऽन्यांश्च विष्णुनंद्यपराजितान् । गोवर्धनं भद्रबाहुं दशपूर्वधरं यजे ॥४९॥ ॐ ह्रीं श्रुतकेवलिनेऽय॑म् । विशाखप्रोष्ठिलनक्षत्र जयनागपुरस्सरान् । सिद्धार्थधृतिषणाहौ विजयं बुद्धिबलं तथा ॥५०॥ गंगदेवं धर्मसेनमेकादश तु सुश्रुतान् । नक्षत्रं जयपालाख्यं पांडु च ध्रुवसेनकम् ॥५१॥ ॐ ह्रीं कतिचिदंगधारिभ्योऽय॑म् । कंसाचार्य पुरोगीयज्ञातारं प्रयजेन्वहं । सुभद्रं च यशोभद्रं भद्रबाहुं मुनीश्वरम् ॥५२।। लोहाचार्य पुरा पूर्वज्ञानचक्रधरं नमः । अर्हद्बलिं भूतबलिं माघनंदिनमुत्तमम् ॥५३|| धरसेनं मुनींद्रं च पुष्पदन्तसमाह्वयं । जिनचंद्रं कुंदकुंदमुमास्वामिनमर्थये ॥५४।। ॐ ह्रीं ऐदंयुगीनदीक्षाधरणधुरंधरनिग्रंथाचार्यवर्यान् वेदीप्रतिष्ठाने संस्थाप्याष्टविधार्चनं करोमि अय॑म् । [प्रतिष्ठा-प्रदीप] [१०७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy