SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ महर्षिपर्युपासनम् औषधीरसबलर्द्धि तपःस्था क्षेत्रबुद्धिकलिताः क्रिययाढ्याः। विक्रयर्धिमहिताः प्रणिधानप्राप्तसंसृतितटा मुनिपूज्याः ॥२८॥ केवलावधिमनःप्रसरांगाः वीजकोष्ठमतिभाजनशुद्धाः । वीतरागमदमत्सरभावा बोधिलाभमनघाः प्रदिशंतु ॥२९।। यद्वचोऽमृतमहानदमना जन्मदाहपरितापमपास्य । निर्ववुः सुखसमाजतटेषु बोधिलाभमनघाः प्रदिशंतु ॥३०॥ श्रोतभिन्नमतयः पदपंथा दृष्टसंसृतिपदार्थविभावाः । तत्त्वसंकलितधर्म्यसुशुक्ला बोधिलाभमनघाः प्रदिशंतु ॥३१॥ स्पर्शनश्रवणलोकनबुद्धा घ्राणसंस्थरसनोपकृता ये । दूरतोऽप्यनुभवं समाप्ता बोधिलाभमनघाः प्रदिशंतु ॥३२।। छिन्नस्वर्यविधिना चतुर्दश दिग्सुपूर्वमतिना निमित्तगाः । वादिबुद्धकृतिनो मतिश्रमा बोधिलाभमनघाः प्रदिशंतु ॥३३।। अष्टधोक्तदशधाभिदया ये बुद्धिवृद्धिसहिताः शिव यत्नाः । विण्मलादिगदहापनदेहा बोधिलाभमनघाः प्रदिशंतु ॥३४॥ दृष्टिवक्त्रमनसां विषभक्तिप्रीणिताः श्रुतसरित्पतिपुष्टाः । लोकमंगलिषु संन्यसिता ये बोधिलाभमनघाः प्रदिशंतु ॥३५॥ वाक्यमानसबलेन समग्रा उग्रदीप्ततपसस्त्रिकगुप्ताः । घोरवीर्यगुणभावितचित्ता बोधिलाभमनघाः प्रदिशंतु ॥३६।। दुग्धमध्वमृतभोजनकृत्याः सर्पिषाश्रववचोऽभिनियुक्ताः । अण्वलाघववशित्वविदर्भा बोधिलाभमनघाः प्रदिशंतु ॥३७|| कामरूपगुरुता प्रतिसर्पान्तर्द्धहीनवसतिगृहयुक्ताः । चारणा जलफलाग्निकसूत्रा बोधिलाभमनघाः प्रदिशंतु ॥३८॥ आत्मशक्तिविभवागतसर्वपौद्गलीयममताश्च्युतवस्त्राः ।। सत्परीषहभटार्दनदास्ते बोधिलाभमनघाः प्रदिशंतु ॥३९।। ॐ ह्रीं अष्टप्रकारसकलऋद्धिप्राप्तेभ्यो मुनिभ्योऽय॑म् । आद्येशितुर्वृषभसेनपुरस्सरा ये, सिंहादिसेनपुरतोऽजिततीर्थभर्तुः । श्रीसंभवस्य किलचारुविसेनमुख्यास्तुर्यस्य वज्रधरमुख्यगणाधिराजाः ।।४०|| कोकध्वजस्य चमराधिपपूर्वगाः स्युः पद्मप्रभस्य कुलिशादिपुरः स्थिताश्च । श्रीसप्तमस्य बलमुख्यकृताः पुराणे चन्द्रप्रभस्य शमिनः खलु दत्तमुख्याः ॥४१|| १०६] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy