________________
एवं श्रीजिनवर्धमान इति सन्नाम्ना जिनाधीश्वरः __सम्यक्संस्तुतिमार्गमेष मयका संप्रापितः सत्तमः । श्रीमच्छ्रीकुशलादिसागरमहोपाध्यायपादाम्बुजप्राप्तप्रौढमहाप्रसादनिरतः स्तात् सर्वदा श्रेयसे ।। २८ ॥
॥ इति महावीरस्तोत्रम् ॥ महोपाध्याय श्री श्री १००८ श्रीकुशलसागरगणिशिष्यपण्डितश्रीविजयसागरगणिना कृतं वीरस्तोत्रं भणसाली
श्रीवीरापठनार्थ पूरग्रामे ।
वीरजिनस्तवनम् ।
विश्वश्रीद्ध ! रजश्छिदे गरिमंदत्यादर्पनाशे क्षम
सद्वाचं स्तुवयाश्रवं परिहरन् क्ष्मासूर्य दुःखंक्षमम् । निस्तन्द्रं तपनँद्वसुं दुरितसूदारिक्थ ! वीर ! स्थिरं रम्यश्रीविरँसोऽसकामनिकृति मद्रालयं शङ्करम् ॥ १॥
(चतुर्गुनामङ्गलं चक्रम् )
टिप्पनकम् । १ विश्वश्रीद्ध०, चतुस्त्रिंशदतिशयाऽष्टप्रातिहार्यादिरूपया विश्वश्रिया समग्रलक्ष्म्या शोभया वा इद्ध दीप्त !, हे वीर ! खां रजश्छिदे स्तुवे । २ गरिमाण दातीति । ३ खरे वेति विकल्पयलोपत्वेनाऽत्र यलोपाऽभावात् स्तुवयाश्रवमिति सिद्धम् । जातावेकवचन मित्यासवान् परिहरनिति मद्धिशेषम्(2)स्तुत्यसम्बोधनं वा । हे मासूर्य ! प्रकाशकत्वात् । ४ दुःखानां क्षयो यस्मात् । ५ तपनो रविस्तद्वदाचरन्ति आचारार्थे विप् , तपनन्तीति तपनन्तो बसवः किरणा यस्य । ६ दुरितानां सूदो विनाशो यस्मात्-रिक्थं द्रव्यं स्थिरमप्रकम्पत्वात् । ७ रम्यश्रीषु गवितरसोऽहम् । ८ निकृतिर्माया ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org