SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८६ यस्मादाविरभूजगत्रयहिता संदर्शयन्ती स्वयं भूगोलं च खगोलमेतदुभयं ब्राझी जगच्चक्षुषाम् ॥२२॥ सिद्धार्थक्षितिपालवंशविमलस्थूलैकमुक्तामणि श्रीमच्छ्रीत्रिशलामनःपरिणतानन्दप्रदानप्रभुम् । स्वामिंस्त्वत्पदसेवनव्यतिकरव्यालोलचेतस्कतः पूतात्मा जन एष निर्मलमनास्तुष्टूपति त्वां सदा ॥२३॥ स्वामिस्त्वत्पदसेवकोऽस्म्यहमपि त्वेषा मतिः स्थेयसी - स्वल्पा वा महती भवस्थितिमिमां जाने निजामात्मनः । नो मां चेत् पदसेवकं परमहो क्षुत्तृव्यथा बाधते . त्वद्ध्यानार्णवलीनपीनमनसो निद्रापि कौतस्कुतिः॥२४॥ ये हिंसानृतचौर्यकार्यनिरता ये चान्ययोषाजुषः पापव्यापभृतोऽपि वीर ! भवता निस्तारितास्तेऽप्यहो । एतेषु स्विकधीः परत्र परधीय॑न्ने असेऽस्मादृशास्तत्ते नौचितिमञ्चति स्वपरयोर्भेदोऽकदर्यस्य यत् ॥२५॥ सर्वे गुणाः श्री जिनवीरमाश्रिताः सद्राजहंसा इव मानसं सरः । शरत्सुधादीधितिकान्तकान्तयः पवित्रलावण्यपयःप्रपूरितम् ॥ २६ ॥ जातं ते फलवत्तवाननरमासंवीक्षणादीक्षगं - हस्ते शस्ततमौ त्वदीयचरणाम्भोजन्मसंपूजनात् । सा सारा रसना त्वदीयविमला भिक्षासु संपगृहात् मन्ये मे सफलं जनुश्च सकलं स्वामिस्तव ध्यानतः॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy