SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८५ तं वन्दे जिनसार्वभौमतिलकं तीर्थङ्कराप्रेसरं . श्रीवीरं प्रणताङ्गिपद्मयुगलीवीराधिवीरेश्वरैः । यः कामं प्रणिहत्य मुक्तिवनितानिष्कामचूडामणि भुङ्क्ते तां च ददाति भक्तजनता प्रत्यद्भुतं तन्महत् ॥१७॥ विविधविषयाशङ्कापङ्कप्रकाशविशोषकं - विमलकमलापारोल्लासप्रवृद्धपटीयसम् । नमत जिनपं ज्योतिःस्तोमप्रकाशितविष्टपं तरणिकरणिं श्रीसिद्धार्थक्षमापतनूरुहम् ॥ १८ ॥ अद्यप्रातीनमेतन्मरणमिति सदा संविदानोऽपि जन्तु. नों धर्म कर्ममर्मव्यतिकरवशगः कर्तुमीष्टे कदाचित् । इत्येतन्मोहजालं दलयतु सकलं सर्वकालीनमात्म 'संवेद्यं सर्वथाऽसौ जिनवरवृषभो मामकं मूलतोऽपि १९ तेषां नैव दवीयसी सुरगवी नेदीयसी स्वारमा . स्वःकुम्भादिविभूतयश्च वशगा दूरे नवा चक्रिता । मुक्तिस्त्री च मनोनुकूलचरिता कामं किमु महे __ये नित्यं जिनराजपूजनविधौ बद्धादराः स्युनराः ॥२०॥ नाऽसौ चागमिकप्रमाणपुरुषव्यावर्णितं स्वःपदं ____ नो वा भूचरगोचराश्रयसुखं सत्सार्वभौमादिजम् । नैवाऽव्यात् पदसंपदादिकमपि प्रार्थ्यामहे हे प्रभो ! भूयाच्छाश्वतिकप्रमोदविधये सेवा तवाऽऽकस्मिकी २१ सिद्धार्थान्वयवार्धिवर्धनविधौ तं पार्वणेन्दूदयं : श्रीमन्तं परमेष्ठिनं प्रणयतः सत्स्तोत्रमार्गे नये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy