SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८४ विविधवृजिनमूलं चूर्णपेषं पिनष्टि प्रबलबलमसौ द्राङ् मोहनीयं समग्रम् ॥ ११ ॥ दुष्टव्याधिमहोदरक्षयमहामेहाङ्गभङ्गादिभी . ... रोग व कदापि सोऽङ्गिनिवहः प्रायः पराहन्यते । यस्त्वन्नाममहौषधव्रतविधिव्यापारबद्धादरश्चिन्त्या नैव यतो महौषधमणीमन्त्रादिसंपत्तयः ॥१२॥ प्राघानि तैर्मोहमहाबलानि त्वच्छासनं यैरुररीकृतं प्रभो!। स्वर्मोक्षकामानि मनांसि चैषां - यके जनास्त्वद्वरवक्रपायिनः ॥ १३ ॥ एष स्वर्गिगणः प्रकामनिपुणः संसेवते वासवं ... प्रायश्चक्रधरं नरं नतिपथं नृणां नयत्युत्करः । पातलप्रभुताश्रितं प्रणमति ह्येकोऽसुराणां गणः .. कस्कस्त्वां त्रिजगत्प्रभुं न भजते देवो नरो वाऽसुरः१४ स्तुत्यं जन्म तदीयमेव निवहेर्नणां कलाशालिनां. .. वृत्तिश्चापि च वर्णनीयमहिमा प्रज्ञालयं चाननः । सम्पत्सत्स्पृहणीयभावरुचिरा चित्रा तदीयैव सा " · · यस्त्वां त्रिः प्रतिवासरं प्रणमति प्राणी त्रिधा शुद्धितः१५ मत्तेभेन्द्रस्य कुम्भस्थलमिव निवहाः षटूपदानां भजन्ते सम्पूर्ण नीरपूरैः सर इव महसा सारसानाश्रयन्ते । सारङ्गाः शालान्तं वनमिव गहनं संजुषन्ते समन्तात् तद्वद्देवाधिदेवक्रमकमलमलङ्कुर्वते राजहंसाः ॥ १६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy