SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८३ सिद्धार्थक्षितिभृत्कुलाम्बरमणिं त्रैलोक्यचूडामणि श्री वीरं नम हे मनः ! प्रसृमरश्रीकीर्ति केली गृहम् । मुक्तिस्मेरमुखोपगूहन मुखं चेदात्मसादी हसे कर्तुं ह्यौपयिकं न तत्र किमपि प्राज्ञैः परं गीयसे ॥ ६ ॥ श्रेयः श्रियां धाम यदीयनाम प्रकाममाविः कुरुते प्रकामम् । श्री त्रैशलं पेशलमूर्तिमन्तं सर्वं चतुर्विंशममुं भजेऽहम् ॥ ७ ॥ विबुधावनितानेकच्छेकप्रकामपराङ्मुखं प्रशमिजनतासम्यग्गेयं गुणोत्करराजितम् । नय मम मनः ! श्रीसिद्धार्थं सदा स्मृतिगोचरं तरणिकिरणं ध्वान्तध्वंसे यदीच्छसि संपदम् ॥ ८ ॥ कुन्देन्दुस्फटिकावदातसुषमांश्चेतोहरान् बन्धुरान् ये कामं कलकण्ठकण्ठमधुरध्वानैकताना नराः । गायन्ति त्रिदशाधिनाथनिकरानन्दप्रद ! त्वगुणां स्तेषां जन्म च जीवितं च सफलं पुंस्कोकिलानां जने ९ चेत्सङ्कल्पविकल्पकल्पनमतिस्त्वं कल्पभूमीरुह स्त्वत्सेवाकरणप्रवीणमनसस्त्वच्चश्वरीका वयम् । सर्वाशापरिपूरको जलधरस्त्वं चेद्वयं चातका स्त्वं दाता शिवशर्मणो यदि वयं तद्याचकाःस्मोऽधिकम् ॥ प्रणिनमति य एनं नाम पूर्वापराह्ने त्रिभुवनतिलकाभं वर्धमानं समानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy