________________
ववेऽहिः श्रितशान्तिरस्तदुरितः सामस्वनं स्वर्वरं
सुप्ता तात्त्विकतेश सादरदमोद्दामास्यदभ्रे क्षमा । धात्र्यानन्द निशान्तलक्षणमहः कः शुद्धनादा धनं
विद्यादर्पण ! तर्कयंस्तव गिरः सश्रीन सानन्दहृत् ॥ ७ ॥ सुष्ठालम्बिविभाचयक्षतमः स ब्रह्मभर्तुर्घनं
गन्तुं मर्त्यनिवासभीतिविजयीहातनवाऽञ्च्योऽस्ति मे।. - धिन्वंल्लेखहरिद्रलुम्बिनिवहः सुखादमध्योऽप्यहं
शीघ्रं त्वं भव भव्यकेवलवसुस्वामी तदऽस्ताशुभः ॥ ८॥
कान्तिकसुखैरश्चितं पूजितम् , आचितं व्याप्तम् वा ॥६॥ वत्रे ययाचे सर्पः स्वः खर्ग एव वरः प्रसादस्तम् । किं विशिष्टम् ? अहिःभगवद्वचनश्रवणात् श्रि. प्रपन्नप्रशमः। अत एवाऽस्तदुरितः । मधुरतरगन्धर्वगीतादिध्वनिबन्धुरम् । अतत्त्वबुद्धिः सुप्ता सुष्वाप गतेति । वैराग्यातिशययोगात् ससम्भ्रमो यो दम इन्द्रियनोइन्द्रियनिग्रहस्तेनोद्दामा गुर्वी अस्य चण्डकौशिकस्य दधे खयमेव स्थिरीजाता । का? क्षमा । हे धात्र्या. जगज्जनाल्हादक! निशान्त. उद्भटरूपाणि महांसि तेजांसि प्रभावा यस्य तत्सम्बोधनम् । सश्रीः खर्गापवर्गसुखसम्पत्पात्रम् । न स्यादपितु स्यादेव । अत्राऽयं भावः हे नाथ! चण्ड० अहिः स्थाय्यस्थेपि यथा तव गिरस्तर्कयन् शृण्वन् त्सककोपः क्षिप्तपापश्च खर्योग्यं पुण्यमुपार्जितवान् । तस्य च मिथ्यादृष्टिबुद्धिर्नष्टा, तथा को नामाऽन्योपि सानन्दहृत् शुद्धनादास्तव गिरो धनं तर्कयन् सश्रीः न स्यादिति भावः ॥ ७ ॥ सुष्टु अतिशयेनालम्बिनः समन्ततः प्रसरणशीला ये विभाचयाः शरीरप्रभाप्रारभारास्तैः क्षतं ध्वान्तं येन तदामन्त्रणम् । शोभमप्रपाति सुखमयमुक्तिपदम् । खामि० घनमत्यर्थं गन्तुमीहा स्पृहा संसारवासः तस्यभीतिविविधजन्मादि तस्या विजयि जैत्र! तत्तस्मात् कारणात्, न नैव वाञ्छयोऽस्ति अभिलषणीयोऽस्ति मम लेखसुरतरुफलनिकरः । किं कुर्वन् ? धिन्वन् श्रितान् प्रीणयन् । मधुरतररसोऽपि यत एतत् तस्मात् कारणान्मे मुक्तिसुखाभिलाषिणो में लं भवान् अस्ताशुभो भव संपद्यख भव्यकेवलेन निर्मलकेवलावलोकेन वसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org