________________
शिल्पानल्पमनःश्रमः परिवहत्श्रीमत्तनव्यान्तरि ___ वाचं मारवातिदाहविहितव्यूहांबुवीची नदीम् । भनामित्रतमेश सर्वगतमोलावी घनध्यम्बुधिं ___ वन्दित्वाप्तलयः प्रनष्टकलहः स्यां रम्यहर्ये हिते ॥ ९॥ श्रीलोभद्रुमगुल्ममुद्रणभवन्तं मग्नमन्युस्मरं
सोमासत्त्वगुरुं सदा हृदि ददे सारस्पृहासक्तिमान् । मो द्वल्गद्गुप्तलब्धिमहसं साम्यप्रशस्वस्तवं प्रस्तीर्णक्लमरुक्चयं भवभयं भित्वाऽगमद्योऽक्षरम् ॥ १०॥
खामी सूर्यः ॥ ८॥ हे ईश! अहं तव वाचं स्तुत्वा परमपदे आप्तलयः स्यां भवेयमिति सम्बन्धः। शिल्पेषु विज्ञानेषु अनल्पो मनःश्रमः चित्तव्यापारो यस्य सः अत्राऽप्रयुक्तोऽप्यहंशब्दः क्रियायोगाज्ज्ञेयः । परिवहन्ती समन्ततः प्रसरन्ती श्रीलक्ष्मीः सैव मत्ता पुष्टा तस्या तरं तत्पारवती नावम् । स्मरः स एव दवो दवानलस्तस्य योऽतिदाहस्तदुपशमनाय विहि प्राप्तपूराय अम्बुवीच्यो जललहर्यस्तत्प्रधाना नदीव नदी । प्रकृष्टा अमित्रा अमित्रतमाः शत्रवः ततो भमाः पराभूताः । अप्रतिहतज्ञानदर्शनेन सर्वविश्वव्यापक! अथवा सर्वगानि यानि तमांसि पापानि तानि लुनातीति डप्रत्यये ताम् । तथा घना धियो बुद्धयस्तासामम्बुधिमिवाऽम्बुधिम् । एवंविधां तव वाचं वन्दित्वा वदुङ् स्तुति. धातोः स्तुत्वा। प्रमेदुरानन्दसान्द्रतया एकान्तलयलीनः स्यां भवेयम् । गतमत्सरः एकान्तसुखनिबन्धनतया सर्वथा हितकारिणि सिद्धिसौधे ॥९॥श्रीः सम्पत् असन्तोषः स एव द्रुमस्तस्य गुल्मा व्यापकत्वाद्विविधाऽभिलाषलक्षणा विटपास्तेषां मुद्रणा प्रवृद्धिनिवारणो भवश्वरमभवाऽवतारो यस्य तम् । तथा यच्छब्दविशेष्यं त्वामिति गम्यम् । अथवा हे श्रीलोभ० भवन्तं ब्रुडितो लक्षणया क्षीणो क्रोधकामौ यस्य तम् । सोमा० सा श्रीः, उमा कीर्तिः, सत्त्वं बलं, तैर्गरीयांसम् । आई चेतसि ददे निवेशयामि ध्यायामि । मत्र्ये मनुष्यलोके पर्युल्लसन् । अगुप्तं प्रगटं लब्धिमहः केवलज्ञानतेजो यस्य तम् । साम्य० समत्वेन श्लाघनीयःस्तवो गुणवर्णनं यस्य तं त्वां ध्यायामि। यो भवान् अक्षरं मुक्तिपदं संसारभीति मित्वा प्रस्तीर्णा प्रसूताः क्लमक्लेशायाऽऽधिसमूहा रुक्चयाः यत्र तम् ॥ १०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org