________________
पिष्टा जागरशोमिशिष्यसहसे हारं विधेया अरं
पृथ्व्यां तत्त्वविभक्तितः किमिव न श्रीगर्जिसज्जा मतिः॥४॥ श्रेयोबल्यवनिः समस्तसुखकद्दुःशिष्यजल्पद्रुमं
यः कामक्षुरिकाश्च शीतललता भावंप्रयान्तीरदाः । सेक्ता ह्यन्तरमत्ततत्त्वविपिनं निश्रेतगर्जद्रसं
भद्रं त्वं कुरु शर्मलब्धिविदित मां यन्नजस्रं स नः ॥५॥ विज्ञानर्द्धिरसप्रसुस्थमसुमद्वृन्दं सनास्तानयं
मह्यां सङ्गतदानखानिरमदज्वालं स्वशंसालसम् । लब्ध्वा पङ्कमनङ्गवर्जि वचनं तेऽधः प्रयासं जग
ज्ज्ञायिन् यत्स्मरतप्तिहर्म्यमगमद्धर्मज्ञशर्माञ्चितम् ॥ ६॥
दोषान्नाऽनुज्ञातम् । किं विशिष्टा भावाः ? सहसाऽविचार्य, इह प्रमादसादरजन्तुबहुलकालेऽकरणीयाः अरं शीघ्रं पिष्टा एव, तथो भूमौ सम्यक्तत्त्वविवरणेनाऽनित्यतादिभावनातः। किं कथमिव ? श्रीगर्जिसज्जा लक्ष्मीपदे सज्जा निबिडा मतिर्बुद्धिर्न पिष्टा ? अपि तु पिष्टैव ॥ ४ ॥ तासां प्रादुर्भावाय भूमिः, दुःशि० गोशालो जमालिवा वितण्डावादो यस्त्वमदाः च्छिन्नवान् । यस्त्वां कामक्षुरिका विपक्षहृदयविदारकत्वात् कामस्य क्षुरिका, अर्थात्सविकार वाचः सच्छाय सपल्लवल्लीभावं गच्छन्तीश्चादाः क्रिया सेचनशीलः । मनसि भव्यानां गम्यं । अपुष्टं यत्तत्त्ववनं, किं विशिष्टं ? निश्रं स्वपक्षमिताः प्राप्तास्तेषां गर्जन् प्रवृद्धिं गच्छन् रसः प्रमोदो यत्र तत् अद्वैतसुखप्राप्ह्या ख्याता या भूमिः क्षमा तां यन् गच्छन् । स त्वं नोऽस्माकं भद्रं कल्याणं कुरु ॥ ५॥ हे नाथ! तव वचनं लब्ध्वा असुमद्वन्दं परमपदं मोक्षमगमत् इति संक्षेपार्थः । विज्ञानं विशिष्टतत्त्वज्ञानसंपद् तस्या यो रसः प्रमोदो भगवद्वचनश्रवणात्तेन प्रकर्षेण सुस्थं सुखितमिति कर्तृविशेषणम् । त्यक्तदुर्नयं । तथा मह्यां भूमौ अवतीर्णवितरणकर इव दानखानिः । तथा मद एव दानादिसुकृतस्य ज्वालकत्वात् ज्वाला तद्रहितम् । तथा स्वकीयजात्यादिप्रशं. सायामलसं । किंकृला? लब्ध्वेति पूर्वोक्तम् । आराधकानामधःकृतप्रयासम् । जगज्ज्ञायिनिति सम्बोधनम् । कन्दर्पदर्पतापरहितम् । शर्मभिरात्यन्तिकैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org