________________
श्रीवीरजिनस्तवनम् ।
महानन्दशुद्धाश्रितं देवदेवं महीनाथसिद्धार्थपुत्रं पवित्रम् । यथाकामितं दत्तवार्षिक्यदानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥१॥ चतुष्षष्टिदेवेन्द्रयोगीन्द्रवन्धं सुधाशालिसंशुद्धवाक्यं वरेण्यम् । दयासागरं शुद्धसन्मार्गयानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥२॥ अनन्तोत्तरज्ञानचारित्रलीनं जरारोगसम्मोहसन्तापहीनम् । क्षणाद्भूतनिर्मूलमायावितानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥३॥ शमस्वादपाथोधिसंसर्गसक्तं सदा कर्ममर्मप्रपञ्चप्रमुक्तम् । प्रचण्डप्रतापेन भास्वत्समानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥४॥ मनोहारिकल्याणवर्ण विशालं विदीर्णान्तरारिप्रनालिं कृपालुम् । गभीरं विशालैर्गुणैर्वर्धमानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥५॥ जगजीवसन्दोहजीवादिभूतं भवभ्रान्तिरिक्तं नमन्नाकिभूतम् । लसत्स्वर्गिनिर्वाणलक्ष्मीनिदानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम्॥६॥
इत्थं भक्तिवशेन मुग्धमतिना श्रीवर्धमानः स्तुतः
प्रोद्यदेहपवित्रकान्तिकलित: सश्रीकशोभायुतः । याचे नैव कलत्रपुत्रविभवं नो कामभोगश्रियं किन्त्वेकं परमोत्तमं शिवपदं श्रीबालचन्द्रार्चितम् ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org