________________
७४
.. श्रीः। श्रीपार्श्वजिनाष्टकम् ।
सुरदानवमर्त्यमुनीन्द्रनतं नतभव्यजनावलिदोषहरम् । हरभूधरहारियशःप्रकरं करणेभनिषूदनसिंहनिभम् ॥ १॥ निभपादपपतिविभङ्गगजं गजसिंहदवानलभीतिहरम् । हरहारविधूज्वलकीर्तिकरं करुणोदधिमद्भुतरूपधरम् ॥ २ ॥ धरणेन्द्रनिषेवितपादयुगं युगबाहुयुगं कमलाक्षयुगम् । युगपजनसौख्यविधानपरं परमाप्तपतिं जितकर्मरिपुम् ॥ ३ ॥ रिपुमित्रसमाशयमर्हतमं तमउत्करवारकचारुगिरम् । गिरिराजमहीधरधीरगुणं गुणराशिविशुद्धितसद्भुवनम् ॥ ४ ॥ वनथम्भनदुःखसुखैकमतं मतिकौशिकमण्डलसद्युमणिः । मणिकाञ्चनरूप्यलसद्धरणं रणसज्जपदं गतजन्मदरम् ॥ ५ ॥ दरभाववियोजितकर्मगणं गणनायकचित्तकजभ्रमरम् । मरकाम्बुधिपानपयोधिमुनि मुनिनायकमीप्सितकल्पतरुम् ॥६॥ तरुणार्कसमोन्नतसत्करजं रजताद्रिमनोज्ञविशुद्धकुलम् । कुलवारिधिचन्द्रमनन्तकलं कलधौतनिभं जिनपार्श्वविभुम् ॥७॥ विभुसौख्यकरं भवभीतिहरं हरहारकृतोधरणेन्द्रवरम् । वरपोतनिभं भववारिनिधौ निधिवत् सुखदं जिनपस्तवनम् ॥८॥ श्रीवामेयो जिनाधीशः शिवपद्यादिति स्तुतः । पाठकार्योत्तमाम्भोधिगुरूणां सुप्रसादतः ॥ १० ॥ इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org