SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ वन्दे वीरम् । श्रीपार्श्वजिनस्तवः। श्रीअर्बुदाद्रिमुकुटश्रीजीरापल्लितीर्थसुप्रथितम् । स्तौमि श्रीमत्पार्श्व जिनर्षभं श्रीशिवाङ्गभुवम् ॥ १ ॥ तव सद्वर्ण्यसवर्ण श्रीघनरोचिष्णुरोचिरङ्गलता । कल्पलतातोऽप्यधिकं दत्ते दृष्टाऽप्यभीष्टानि ।। २॥ जय नाभिभूत निःसम सुसंविदां श्रीसमुद्रविजय भव । वामाङ्गज जयहेतो भवाब्धिसेतो ! दुरितकेतो! ॥३॥ बिभ्रद् वृषभासनतां निर्मलजलजाङ्कितांहिकमलश्च । भोगीन्द्रसेव्यमान: प्रभो! जय त्वं निरुपमान ॥४॥ श्रीअर्बुदाद्रिविदित श्रीजीरापल्लिपार्श्वजिनवृषभ । श्रेयःसमुद्र नेमे ! देयाः श्रीसोमसुन्दर ! स्वपदम् ॥५॥ इति ॥ अवचूरिः। ऋषभपक्षेऽर्बुदाद्रिमुकुटश्वाऽसौ श्रीजीरापल्लितीर्थेनासन्नत्वात् सुप्रसिद्धिश्च । श्रीमत् पार्श्व समीपं यस्य । श्रीशिवानामङ्गमभ्युपायो धर्मस्तदुत्पत्तिपदम् । नेमिपदेऽप्येवं परं जिनर्षभं जिनप्रवरं । पार्श्वपक्षे-ऽर्बुदाद्रिर्मुकुटो यस्येदृशा जीरापल्लितीर्थेन सुप्रसिद्धम् । सुवर्णश्रीवद् घनं सान्द्रं रोचिष्णु रोचिर्यस्याः । नेमिपार्श्वपक्षे शोभनवर्णश्रीर्घनो मेघस्तद्वद्रोचिष्णु० ॥२॥ निःसमसुसंविदां श्रीयुक्तसमुद्रविजयस्य भवो जन्म यस्मात् । वामः प्रतिकूलोऽङ्गजःस्मरस्तज्जयहेतो। नेमिपक्षे निःसमसुसंविदां नाभिभूताऽऽधारभूत ! । पार्श्वपक्षे हे वामाङ्गज ! हे जयहेतो! ॥ ३ ॥ भोगिनो ये इन्द्राः। नेमिपक्षे जलजःशङ्खः ॥ ४॥ श्रीजीरापल्लिः पार्था यस्य । श्रेयसां समुद्रनेमिभूः । पार्श्वपक्षेऽहेऽर्बुदाद्रिणाऽऽसन्नत्वात् सुप्रसिद्ध ? शेषं सुगमम् ॥ ५॥ __इति तीर्थद्वये जिनत्रयस्य प्रत्येकं स्तवस्याऽर्थः॥ ॥ (एतानि महोपाध्यायश्रीरत्नशेखरगणिविरचितानि )॥ १ गीतिच्छन्दः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy