SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ गुरुपदलाभादुच्चः श्रीपार्श्वः श्रेयसेऽस्तु सत्काव्यः। दोषाकरविद्वेषी न जातु यात्यस्तमिति तु नवम् ॥ ६ ॥ परसिद्धियोगमसितस्तनुतां पार्श्वः प्रयोगतो ब्रायाः। धर्म पुष्णन् धर्माश्रयेण न पुनः कचिन्नीचः ॥ ७ ॥ दुरितभिदे दोषाकरतमोरिपुग्रासलालसः पार्श्वः । कीर्त्या विधुतुदस्तान क्रूरः कौतुकं कापि ॥ ८ ॥ श्रीवामेयोऽनवमस्त्रिजगति केतुः श्रियां परमहेतुः । जयतु स्फुरत्फणर्द्धिर्नवरं नित्योदयी शुभदः ॥ ९ ॥ श्रीपार्श्वस्तवमेवं नवग्रहस्तवनगर्भमध्येतुः । श्रीसोमसुन्दरमतेरप्यशुभाः स्युर्ग्रहाः शुभदाः ॥ १० ॥ ॥ इति श्रीवामेयस्तवनं नवग्रहस्तुतिगर्भम् ॥ श्चारित्रमालिन्यं शीघ्रगतिश्च ॥ ५॥ गुरुपदं सिद्धिर्मीनराशिश्च । मीनराशौ हि शुक्र उच्चः । सद्भिः स्तुत्यः पक्षे सच्चासौ शुक्रश्च । दोषाणामाकरं विद्वेष्टीति तच्छील: पक्षे दोषाकरश्चन्द्रो विद्वेषी यस्य । सिद्धौ शाश्वतोदयस्थितिकत्वात् , शुक्रस्त्वस्तं यात्येव ॥ ६ ॥ असितो नीलवर्णः शनिश्च । ब्राह्मी वाणी रोहिणी च तस्याः प्रयोगत उपदेशादेः प्रकृष्टयोगात् त्वपरसिद्धियोगं प्रकृष्टमुक्तिसंबन्धममृतसिद्धियोगं च तनुतामित्यर्थः । चारित्रधर्माश्रयेण चतुर्विधं धर्ममुपदेशादिना मुष्णन् , पक्षे धर्मभावनाश्रयणेन धर्मपोषी, शनिस्तु मेषे नीचः स्यात् ॥७॥ दोषाणामाकरभूतं यत्तमोऽज्ञानं तदेव रिपुः शत्रुस्तस्य प्रासे विनाशे लालसा श्रद्धा यस्य । पक्षे दोषाकरश्चन्द्रस्तमोरिपुः सूर्यस्तयोर्ग्रसनपरः । कीर्त्या विधुतुदश्चन्द्रस्य जेता पक्षे विधुन्तुदो राहुः ॥ ८ ॥ अनवमः श्लाघ्यः, पक्षे नवमो नवसंख्यापूरणः त्रिभुवने विभूषकत्वात् केतुर्ध्वज इव । पक्षे केतुनामा ग्रहः। पक्षे परं केवलं श्रियामहेतुः । उभयोरपि सफणवात् । केतुस्तु कदाचिदुदयी उदितोऽप्यरिष्टकृच्च ॥ ९ ॥ पाठकस्य, पक्षे पूर्णेन्दुवत् सुन्दरा निर्मला मतिर्यस्य ॥ १० ॥ इति श्रीपार्श्वस्तवाऽवचूरिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy