SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नमोऽहङ्ग्यः । श्रीवामेयस्तवनं नवग्रहस्तवगर्भम् । पार्श्वः श्रियेऽस्तु भास्वानजस्थितेरुच्चतां परां बिभ्रत् । विश्वप्रकाशकुशलः कुतुकं त्वतुलाश्रयः सततम् ॥ १ ॥ पार्श्वः स जयति सोमः परमोन्नतिभृद् वृषप्रयोगेण । शैवे शिरसिनिवासी चित्रं तु तमोग्रयासी ॥ २ ॥ श्रीपार्श्व सद्वृत्तं नवार्चिषं नमत मङ्गलात्मानम् । पृथ्वानन्दनमद्भुतमवक्रमर्पितबुधमुदं च ॥ ३ ॥ वामाभूः श्यामाङ्गः सौम्यः स्तादमृतसिद्धियोगकृते । मैत्रीप्रयोगतो वः कुतुकं तु कलावदुल्लासी ॥ ४ ॥ जगति गुरुः श्रीपार्श्वः शुभदृष्ट्या दोषलक्षमपि मुष्णन् । पुष्णन् श्रियं च जीयान्न कुत्रचिच्चित्रमतिचारी ॥५॥ अवचूरिः। भावान् दीप्रः सूर्यश्च, न जायत इत्यजः सिद्धः पक्षेऽजो मेषराशिस्तत्रस्थो हि रविरुचिः स्यात् , निस्तुल आश्रयः सिद्धिलक्षणो यस्य, सूर्यस्तुलराश्याश्रयोऽपि स्थादिति चित्रम् ॥ १॥ सोमश्चन्द्रश्च, वृषः पुण्यं तत्प्रयोग उपदेशादिना, पक्षे वृषराशेः प्रकृष्टंयोगेन, मोक्षसम्बन्धिनि ईशसम्बन्धिनि च । तमोऽज्ञानं तदेव ग्रहो भूतादिस्तद्विनाशी, पक्षे तमोग्रहो राहुः ॥२॥ सच्छोभनं वृत्तं शीलं यस्य, पक्षे शोभनश्चाऽसौ वृत्तो वृत्ताकारश्च, नवमर्चिस्तेजो ज्ञानरूपं यस्य, पक्षे नवसंख्यकिरणम् । कल्याणमयात्मानं, पक्षे मङ्गलो भौमः। पृथ्व्या आनन्दनं, पक्षे पृथ्व्याः सुतम्, पृथ्व्याः सुतत्वं मङ्गलस्य हि बुधैर्गीयते ॥३॥ श्यामाङ्ग इति बुधनाम । पक्षे सौम्यो बुधः, मैत्रीप्रयोगेण वो मोक्षनिष्पत्तियोगाय स्तादिति सम्बन्धः, पक्षे मैश्य नुराधा तस्याः प्रयोगतो बुधोऽमृतसिद्धियोगकृत् स्यात् । पक्षे बुधस्य हि चन्द्रो रिपुः ॥ ४ ॥ गुरुगरिमास्पदं पक्षे बृहस्पतिः । अतिचार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy