________________
माधुर्यधुर्या नवखण्डजैत्री गीस्तेऽधकार्शानवखण्डवारि । भात्युद्यदादीनवखण्डमाना विश्वेश्वर ! श्रीनवखण्डपार्श्व ! ॥ ३ ॥ नवप्रमुक्ताऽऽनवखण्डलौधैर्भक्त्या कृतोच्चैर्नवखण्डगद्भिः । श्रितान् भवार्तानव खण्डमा विश्वेश्वर ! श्रीनवखण्डपार्श्व ! ॥४॥ आम्नाति नो मानवखण्डनादौ दर्पण येऽन्यानवखण्डयन्ते । गिराऽपि तैस्तेऽनवखण्डनीया विश्वेश्वर ! श्रीनखण्डपार्श्व ! ॥ ५ ॥ वितन्वते ते नवखण्डतिं ये स्वभक्तितोऽहनवखण्डमाशु । ते नित्यनिम्नानवखण्डभन्ते विश्वेश्वर ! श्रीनवखण्डपार्श्व ! ॥ ६ ॥ व्याधीस्तथाधीनवखण्डसे तत् त्वमेव विश्वे नवखण्डहीनः। मनीषिणां मानवखण्डना) विश्वेश्वर ! श्रीनवखण्डपार्श्व ! ॥७॥ इति स्तुतः श्रीनवखण्डनामभृत् प्रसिद्धघोघापुरभूविभूषणः । पार्श्वप्रभुः श्रीगुरुसोमसुन्दरस्फुरद्यशाः शाश्वतसंपदेऽस्तु ॥ ८॥
॥ इति श्रीनवखण्डश्रीपार्श्वनाथस्तवनम् ॥ यतएव माधुर्यधुर्याऽत एवाऽभिनवमधुधूलिजैत्री। अघान्येव कार्शानवानि कृशानुसम्बन्धीनि यानि खण्डानि ज्वाला इत्यर्थस्तत्र नीरसदृशा । आदीनवान् दोषान खण्डमानाघ्नन्ती शीलार्थे शानस्तेन मलयपवमान इतिवत्समाससिद्धिः श्रितादिभिरिति सूत्रेण ॥३॥ आनवखण्डलस्य नवप्रमुक्तत्वे आखण्डलेति स्यात् । कृत उच्चैः स्तवो यस्य खं स्वर्ग डलयोरैक्याल्लगद्भिः स्थितरित्यर्थः । उाः खण्डं पीठं श्रितान् भवार्तान् । अवेति योगः ॥ ४ ॥ मनोरिदं मानवं शास्त्रं स्मृत्यादिखण्डनग्रन्थः, नौतीति नवः स्तोता, न नवोऽनवस्तं, अन्येषामनवोऽन्यानव: त्रिजगतोऽपि स्तुत्यत्वात् ॥ ये दर्पण खं व्योम डयन्ते उत्प्लवन्ते, यद्वाऽवखण्डयन्तीति पाठस्ततो येऽन्यानवखण्डयन्ति तिरस्कुर्वन्तीत्यर्थः, अवखण्डयितुमशक्याः ॥५॥ स्वार्थे तिकप्रत्यये नक्शब्दयोगे च नवखण्डतिस्तमवखण्डं च खण्डेति वर्णत्रयहीनमेतावता नतिमित्यर्थः । निम्नानवमतुच्छं खं सुखं डलयोरैक्याल्लभन्ते ॥ ६॥ यदित्यध्याहार्य, मानवखण्डनार्हपदस्य नवखण्डेति वर्णचतुष्कहीनत्वे मानार्ह इति शिष्यते ततो मनीषिणां माननीय इत्यर्थसिद्धिः ॥७॥
इति श्रीनवखण्डपार्श्वस्तवाऽवचूरिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org