________________
अतिमुदितसकलचन्द्रं स्तुतिमिति पार्श्व च जयजजिनचन्द्रम् । गुरुविजयदानभद्रं शान्तिकरं सर्वदा लोके ॥ ३०॥ ॥ इति श्रीपार्श्वजिनस्तवनम् ॥ शा. कीकाई पठनार्थम् ॥
॥ अहम् ॥ ॥ अथ नवखण्डपार्श्वजिनस्तवनम् ॥
जय प्रभो ! त्वं नवखण्डपृथ्वीप्रख्यातकीर्ते ! नवखण्डमूर्ते । भव्याब्जभानो ! ऽनवखण्डसंविद् ! विश्वेश्वर ! श्रीनवखण्डपार्श्व! ॥१॥ ते तत्क्षणेनाऽनवखण्डमुच्चैर्विघ्नानशेषानवखण्डयन्ति । ये त्वां स्तुयुर्दानवखण्डनार्य ! विश्वेश्वर ! श्रीनवखण्डपार्श्व ॥२॥ सुरतरं सुर इव गिर्वाण इव कल्पवृक्षम् ॥ २९ ॥ अतिमुदितसकलचन्द्र०, हे लोकाः इति पूर्वोक्तप्रकारेण बालबुद्ध्या स्तुतं पार्श्वजिनं जपत ध्यानमध्ये पार्श्व इति पठत । किं० ? अतिमुदिताः सकलाः समस्ताः चन्द्रा यस्मात् तम् । जिनाः सामान्यकेवलिनस्तेषां मध्ये चन्द्र इव लोकादानीय, तम् ! मे गुरुर्महान् यो विजयः विमोहमलशत्रुविजयस्तस्य दानं वितरणं च पुनः भद्रं कल्याणं यस्मात् स तम् । तथा शान्तिकरम् । क्षेमकरं सर्वलोके ॥ ३० ॥
इति श्रीपार्श्वनाथस्तवावचूरिः समाप्ता ॥ डा. १४ । प्र० १० साध्वी हीरां पठनार्थम् ॥
अवचूरिः। लोकप्रसिध्या पृथ्वी नवखण्डा । अवखण्ड्यते इत्यवखण्डः । न विद्यतेऽयखण्डो यस्यां साऽनवखण्डा सम्पूर्णा । संवित्=केवलज्ञानं यस्य ॥ १॥ अनवं जीर्णं ततो जीर्णखण्डमवखण्डयन्तीति योगः, यथा जीर्णमनायासेनैव खण्ड्यते तथा ते विघ्नान् सर्वान् खण्डयन्ति, अत्राऽनवखण्ड खण्डयन्तीति कृला पश्चादवोपसर्गेण योगः, प्रथममेवाऽवोपसर्गयोगे त्वनवखण्डमित्यत्र णम्प्रत्ययस्याऽसम्भवः । व्याप्याञ्चेवादिति सूत्रे तस्यैवेति नियमात् , यद्वाऽवशब्दश्चादिपठितो भर्त्सनार्थे क्रियाविशेषणत्वेन योज्यः, भर्त्सनपूर्व विघ्नान् खण्डयन्तीति भावः । अथवाऽवतीत्यचि अवः ततो जिनसम्बोधनं हे अव ! रक्षक! । दानवखण्डना इन्द्राः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org