________________
नमत नमत जिनपण्डितम् क्लेशनाशभुविमण्डितम् । जन्मसागरतरण्डितं त्रिगुणरत्नसुकरण्डितम् ॥ २२ ॥
(सुमहम् ) अरतिरतिविमुक्तप्रबोधाब्धिनिर्मायनिर्लोभनिःकामनिर्माननिःक्रोधनिःशोकनिर्निद्रता सकलजगति निःपापो निःसङ्गतिः कर्मनिदम्भनीरागनिर्ग्रन्थता ते सदा । त्रिभुवनागतवस्तुप्रकाशाग्रलक्ष्मीलसद्दर्पणस्त्वं विनिर्दोष निर्मोह निःप्रेमता शमजलधिनिमग्नं मनो निर्गमायावकाशं न लातीति सञ्चिन्त्य मे ते गुणाब्धि प्रभो !॥२३॥
(दण्डक) सर्वसुरेन्द्रा विश्वनरेन्द्रास्तापनचन्द्रश्वोज्झिततन्द्रा
मङ्गलबुधगुरुशुक्रशनीश्वरराहुककेतुकखेटकवृन्दा । उपवासी कृतमाससंलेखन इत्यर्थः । स भुवनहरिचन्दनो विश्वकल्पद्रुमो वो युष्माकं मुदेऽस्तु आनन्दाय भूयात् ॥ २१ ॥ नमत नमत जिनपण्डितं, हे भविकाः सततं निरन्तरं जिनपण्डितं जिनविचक्षणं पार्श्व नमत । किं ? क्लेशनाशभुवि क्लेशनाशाय भुवि पृथिव्यां मण्डितं स्थापितं जन्मसागरतरण्डितं, उपलक्ष्यते जन्ममरणमेव सागरस्तस्मिन् तरण्डमिव प्रवहणमिव जातस्तम् । त्रिगुणा ज्ञानादयस एव रत्नानि तेषां करण्डक इव जातस्तम् ॥ २२ ॥ अरतिरतिविमुक्त०, हे प्रभो, इति अमुना प्रकारेण ते तव गुणराशिं संचिन्त्य सञ्चिन्त्य स्मृत्वा स्मृत्वा शमजलनिधिमग्नं सत् मे मनो हृदयं निर्गमायाऽवकाशं छिद्रं न लाति न प्राप्नोति इति, कथम् ? अरतिरतिभ्यां मुक्तस्त्वमेव प्रबोधाब्धिनिर्मायनिर्लोभनिःकामनिमाननिःक्रोधनिःशोकनिर्निद्रता च ते तवैव नाऽन्यस्य । सकलजगति सकलब्रह्माण्डे निःपापनिःसङ्गनिःकर्मनिर्दम्भनीरागनिर्वेदनीरोगनिर्ग्रन्थता च ते तवैव सदा निरन्तरं । तथा त्रिभुवनगतवस्तुप्रकाशावबोधाग्रलक्ष्मीलसद्दर्पणस्त्वमेव । तथा निर्दोषनिर्मोहनिःप्रेमता च ते तवैव इति तव गुणाब्धि सञ्चिन्त्यसञ्चिन्त्य मे मनः शमजलधिनिमग्नं सत् निर्गमायाऽवकाशं न लाति ॥ २३ ॥ सर्वसुरेन्द्रा० हे पार्श्वजिनाधिप ! तव कीर्तनतस्तव स्तवनतः सर्वे सुरेन्द्रा वासवास्तथा विश्वनरेन्द्राः समस्तचक्रवादिभूमीश्वराः तथा तापनचन्द्राः सूर्यपुष्पदन्ताः एते सर्वेऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org