________________
६७
सोमयमासुरवैश्रमणामरवारुणलोकपकिन्नरभूताः
पार्श्वजिनाधिप ! कीर्तनतस्तव शान्तिकरा जगतां तु भवन्तु
( रत्नमाला )
अमतितिमिरपरिवर्जितं ज्ञानमास्तनसुमर्दितम् । भारतीवदनचुम्बितं स्मर जिनं त्रिजगदर्चितम् ॥ २५ ॥ ( सुमहम् )
निर्दोषध्वनिगर्जते विलसते मुक्त्या तमोभावते
सम्मोहं हरतेऽर्हते विकसते ते प्रातिहार्यश्रिया । सच्चित्ते भ्रमते पयोजसरते ध्यानाम्बुदो विद्युते
श्री वामेय ! नमो नमो मम विभो ! ज्ञानाम्बुधौ मज्जते २६ ( काव्य )
हरिहरिचलचित्तगुप्तिगुप्तं हरिहरिदङ्गमयूषराजमानम् । कमठहरिहरिहरिप्रियाद हरिहरिणातपवारणत्रयाप्तम् ||२७||
किं० ? उज्झिततन्द्राः सावधानाः त्यक्तनिद्राः । च पुनः मङ्गलादिसर्वे खेटकवृन्दा ग्रहसमूहाः, तथा सोमादिलोकपालाः, तथा किन्नरभूताः एते सर्वेऽपि देवविशेषाः जगतां तु पुनः शान्तिकरा भवन्तु क्षेमविधायिनः स्युः ॥ २४ ॥ अमतितिमिरपरिवर्जितं, हे जन्तो प्राणिन् ! अज्ञानतिमिरमुक्तं, तथा ज्ञानलक्ष्मीस्तन सुमर्दि - तम्, लोलितं आलिङ्गितमिति यावत् । तथा भारत्याः सरस्वत्या वदने चुम्बितो भारतीवदनचुम्बितः, मुखाग्रसरस्वतीरूप इत्यर्थः । तत्र तथा त्रिजगदर्चितं जिनं त्रिभुवनपूजितं जिनं स्मर स्मृतिगोचरं कुरु ॥ २५ ॥ निर्दोषध्वनिगर्जिते ० । हे वामेय ! हे विभो ! ते तुभ्यं मम नमोनमः, वीप्सायां द्वित्वं, किं० 1 तुभ्यं निर्दोषध्वनिना गर्जिते धर्मसद्मनीति गम्यं । पुनः किं कुर्वते ? विलसते रममाणाय । कया ? मुक्त्या सह । पुनः किं० ? तमोभाखते । पुनः किं० ? अर्हते त्रिभुवनपूजार्हाय । पुनः विकसते, प्रफुल्लाय शोभमानाय । कया ? अष्टमहाप्रतिहार्यश्रिया । पुनः भ्रमते भ्रममाणाय सच्चित्ते सज्जनचित्ते । पुनः पयोजसरते कनककमलेषु व्रजमानाय, पुनः ध्यानाम्बुदोद्विद्युते ध्यान पयोवाहान्तरे विद्युदिव द्योतमानाय । पुनः मज्जते स्नानं कुर्वाणाय, क ? ज्ञानाम्बुधौ ज्ञानसमुद्रे ॥ २६ ॥ हरिहरिचल०,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org