SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६५ पौषमासे जिनो बहुलदशमीदिने जननकल्याणको मरकताभो वरविशाखाभतुलराशिनवकरतनुस्त्रिंशदब्दो गृहेऽभुक्तराज्यः १९ पौषमासे ब्रती बहुलतैकादशी त्रिशतनरवरयुतोऽष्टमतपस्वी कोपकटधनगृहे परमान्नकृतपारणः छद्मताशीतित्रिदिने विहारी। सुपिकमधुमासके सितचतुर्थीदिने धातकीद्रुमतले षष्ठतपसा सर्ववेदीजिनो विश्वमङ्गलकरो वेदबीजं ददौ दशगणिभ्यः॥२०॥ पार्श्वपद्मावतीसेविताशासनः सहस्रषोडशमुनिव्रातबोधी साष्टत्रिंशत्सहस्रार्यिकानायकः सप्तदशकाब्दपर्यायधारी। श्रावणाष्टमदिने वर्षशतजीवितो पोषितो मासि सम्मेतशैले वरस्त्रयस्त्रिंशदनगारसमसिद्धिगोभुवनहरिचन्दनो वो मुदेऽस्तु २१ (घटितगद्यविशेषकम् ) णकः । तथा यः अश्वसेनराजपत्नीवामाङ्गजो नन्दनो जातः । तथा यः भुजगचिह्नो भुजगलाञ्छनो जातः । तथा यः शिवपुरी वाणारसी तस्याः तिलकसमो जातः। तथा यो जिनः पौषमासे बहुलदशमीदिने कृष्णदशम्यां जन्मकल्याणको जातः । तथा मरकतरत्नकान्तिः । विशाखानक्षत्रजननस्तुलाराशिर्नवहस्ततनुत्रिंशदब्दो गृही त्रिंशद्वर्षगृही अभुक्तराज्यः । तथा पोषमासे बहुलतया एकादशी कृष्णैकादश्यामित्यर्थः । तत्र त्रिशतराजवरयुतः शतत्रयनृपयुतोऽष्टमस्तपस्वी सन् व्रती चारित्री जातः । तथा कोपकटसनिवेशेधनगृहिगृहे परमान्नकृतपारणको जातः । व्यशीतित्रिदिनछद्मस्थविहारी, सुपिकमधुमासके सुकोकिले चैत्रमासे कृष्णचतुर्थीदिने धातकी द्रुमतले षष्ठतपसा केवली जातः । विश्वमङ्गलकरस्त्रिभुवनकल्याणकरो जिनोऽर्हन् यो वेदबीजं त्रिपदीरूपं दशगणिभ्यो ददौ दत्तवान् । च पुनः पार्श्वः पार्श्वयक्षः पद्मावती देवी ताभ्यां सेवितं आसमन्तात् शासनं यस्य । षोडशसहस्रसाधुव्रातबोधक ! एतत्परिवार इत्यर्थः । च पुनः अष्टत्रिंशत्सहस्रार्यिकाधिपः एतत्साध्वीपरिवार इत्यर्थः । सप्त च ते दशकाश्च सप्तदशका सप्ततिवर्षचरणपर्यायधारी। तथा श्रावणाऽष्टमीदिने शतवर्षसर्वजीवितः मासि उपोषितः सम्मेतशैलपर्वते सिद्धियुवतिवरो यो जातः, त्रयस्त्रिंशत्साधुभिः सह मुक्ति प्राप्त इत्यर्थः । स्तो. स. ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy