________________
वासवमौलिवृन्दविनते कृतसमस्तविरते ।
वीतसमस्तदोषकुगते जिन विशदयते । धौतशरीर कुन्दसुरभे वरकलभगते चेतसि मे हि मम रमते तव सुगुणततेः ॥ १७ ॥
(खिजितम्) सिद्धबुद्ध रुद्धरागरोष पापपोषमानदोषजनन ... भावयुद्धसुप्रसिद्धदुर्निवारवीरमार विजय । सर्वऋद्धिसिद्धिबुद्धिवृद्धिशुद्धलब्धिदानवचन सन्निरुद्धमोहमल्लवीतराग देहि मे हिते स्वरूपकलनमीशहे
(नाराचकम् ) बहुलमधुमासके वरचतुर्थीदिने प्राणतस्वर्गतश्चयववनभद्रो .:- योश्च तेनाधिपस्त्रीसुवामाङ्गजः शिवपुरीतिलकसमभुजगचिह्नः। सज्जनाय ! ॥१६॥ वासवमालिवृन्द०, हे जिन ! हे वासवमौलिवृन्दविनत ! इन्द्रोत्तमाङ्गमुकुटसमूहविनत ! हे कृतसमस्तविरते, तथा हे वीतसमस्तदोषकुगते तथा हे शदयते! पवित्रमुने । तथा हे धौतमिव शरीरं यस्य तस्य सं० । अस्नातोऽपि स्नात इवाङ्ग । हे कुन्दकुसुममिव सुरभे सुगन्ध ! तथा हे कलभगते हे गजगते! ते तव सुगुणततेः श्रेणेर्मम हि निश्चितं मे मम चेतसि रमते विलसति ॥ १७ ॥ हे ईश! खामिन् ! हे रुद्धरागरोषपापपोषमानदोषजनन ! रागादीनां द्वन्द्वसमासः । रुद्धा रागादयो येन तस्य सम्बोधनम् ! युद्धं द्विधा द्रव्यभावभेदतस्तत्र भावयुद्धेऽन्तरङ्गयुद्धे सुप्रसिद्धदुर्निवारवीरमारस्य विजयो यस्मात् तस्य सम्बोधनम् । तथा हे सर्व०, ऋद्धिसिद्धिबुद्धिवृद्धिशुद्धलब्धिदानवचन ! सर्वरुद्ध्यादितः सर्वशुद्धलब्धियावत् द्वन्द्वसमासः । तासां दानं यस्मिन् एवंविधं वचनं यस्य तस्य सम्बोधनम् । तथा हे सन्निरुद्धमोहमल्ल ! हे वीतराग ! मे मम हि निश्चितं ते तव खरूपकलनं तव स्वरूपज्ञातृत्वं देहि प्रयच्छ ॥ १८ ॥ बहुलमधुमासके०, स श्रीपार्श्वजिनो वो युष्माकं मुदे आनन्दाय अस्तु भवतु । स कः ? यो बहुलमधुमासके चैत्रकृष्णपक्षे वरचतुस्त्रिंशदिने प्राणतखर्गतश्च्युत्वा च्यवनभद्रो जातः च्यवनकल्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |